________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३२
Acharya Shri Kailassagarsuri Gyanmandir
दुपथं कुपथं धाव, द्विषमेव महन्मनः ॥ यावज्जितं मनो नैव तावदस्ति तमः स्थिरम् ॥ १६३॥ किं करोषि मनोलौल्यं, मनोलौल्यं निवारय ॥ कुरु मोक्षपुरश्चित्तं गच्छ पारं भवाम्बुधेः ॥ १६४ ॥ भोगिविषयभिताया, यावदस्ति भवन्मनः भवस्य भ्रमणं तावन्नात्र संशयवान्भव ॥ १६५ ॥ स्वध्यानेन जहि स्वान्तं विषयेच्छां निवारय ॥ मानवानां नहि प्राप्योऽवतारो हि पुनःपुनः ॥ १६६ ॥ द्वेषिद्वेषं त्यजाशु त्वं कस्य द्वेषं करोषि च ॥ द्वेषिणश्चात्र संसारे, भ्रमन्ति हि चतुर्गतौ ॥ १६७ ॥ द्वेषस्तव न धर्मोऽस्ति, परपरिणामतोऽस्त्ययम् ॥ व्यर्थ द्वेषं विधाय त्वं भवे क्लेशं च लब्धवान् ॥१६८॥ सदा शुद्धस्वरूपस्त्वं, निर्मलः सिद्धसन्निभः ॥ मत्वा वस्तु परं स्वीयं, किं विस्मरसि चेतनम् ॥ १६९ ॥ परपरिणामतो नित्यं, पृथक् चेतननायक ॥ विचारयन्निजं स्वेन, लभतेऽनुभवं स्वयम् ॥ १७० ॥ हास्यरोदौ न ते धर्मस्त्वमसि गमनातिगः ॥ शुल्कागारनिभो देहस्तत्र का ममता तव ॥ १७९ ॥ श्रमुञ्चच्च बहून्देहान्, तथैवायं तनुः पुनः ॥ तस्मादतिपृथक् स्वात्मा, चिदानन्दो गुणालयः ॥ १७२॥
For Private And Personal Use Only