________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उवास कारागृहतुल्यदेहे, बद्ध स्तथायुष्यसुशृङ्खलाभिः ॥ जगत्सु किम्बारचयेन्मनुष्यः, स्कन्धा इमे सन्ति तु पुद्गलानाम् ॥ १५१ ॥ निजात्मिकध्यानसुरक्तता च, रत्नत्रयीध्यानमथो भवेच्च ॥ एकोऽस्म्यहं सर्वगुणैः प्रपूर्णो, ज्ञानं तदेवं खलु सत्यमस्ति ॥१५२ ॥ रत्नत्रयीस्वामिवरोऽहमस्मि, सुखात्मकः शाश्वतचित्स्वरूपः ॥ कदाचिदन्यस्य भवामि नाह,
महं परानन्दमय स्वरूपः ॥ १५३ ॥ क्रमेण सुखदुःखे च सातासाताख्यकर्मतः चतुर्गतिभवे कूपे केवलं दुःख माप्यते ॥ १५४ ॥
कुप्यामि कं वा प्रति लोकमध्ये, न दृश्यते क्रोधिजनोऽपि कश्चिद् ॥ रागं तथाऽहं प्रति कं करोमि, न दृश्यते रागिजनोऽपि कश्चिद् ॥१५५ ॥ द्वेषोभवेच्चेतसि ते यदा तु, द्वेषी स्वयं तर्हि भव त्वमस्य ॥
For Private And Personal Use Only