SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी १८५ कस्य यौवनोपचयपी पाञ्चालललनाकुचोन्नाह लालितपृथूरः स्थलस्य कुशस्थलपतेः प्रतापशीलस्य कुसुमावली नाम [ल ] । इयं च मार्जितमणिप्रदीपदीप्तदेहा स्वदेहच्छायया विच्छाययन्ती विद्याधरीगणमग्रतो निषण्णास्ते, एषापि यदुनरेन्द्रवंशविशेषकस्य महेन्द्रमलयाद्रिमध्यवर्तिमेदिनीपाल मौलिसंघट्टमसृणमाणिक्यपादपीठस्य हठगृहीतसकलदुष्टारातिकोशकाञ्चनस्य कानीपतेः कुसुमशेखरस्य मलयसुन्दरी नाम [ व ] । या च निज सौन्दर्यनिर्जिताप्सरोरूपविभ्रमा लक्ष्मीरिव क्षीरसिन्धुफेनपटलस्य पट्टांशुकवितानकस्य तलभागे तरलतारकमवलोकयन्ती वामतोऽवलोक्यते, एषाप्य शेषविद्वज्जन स्वयंग्राह विलुप्त सकल गृहस्वा पतेयस्य कुसुमपुरसततवाससफलीभूतजन्मनो मनस्विनां धौरेयस्य मगधेश्वरस्य सुरकेतोः शकुन्तला [श ] । यापि विरतनिद्रनीलोत्पलश्यामाभिरामवर्णा दानलेखेव सर्वतः परिमलान्धैः स्वैरापतद्भिरलिकदम्बकैराकुलीकृता मत्त www.w wwwwwww www टिप्पनकम् - उन्नाहः - उन्नतिः [ल ] | विशेषकः - तिलकः [व] । मत्तवारणम् एकत्र करिणम्, अन्यत्र 'सनस्थान विशेषम् [ष ] | स्करोतीव निन्दयतीवेत्युत्प्रेक्षा, इयं सेयं कन्यका, अखिलावनिपालतिलकस्य समस्तनृपश्रेष्ठस्य पुनः यौवनोपचयपीनपाञ्चालललना कुचोन्नाहलालितपृधूरः स्थलस्य यौवनोपचयेन - तारुण्यपूर्णतया, पीनयोः -स्थूलयोः, पाश्चालललदुनायाः- पाञ्चालदेशाङ्गनायाः, कुचयोः - स्तनयोः, उन्नाहेन - औन्नत्येन, लालितं- विलासितं पृथु - विशालम्, उरःस्थलं - वक्षःस्थ यस्य तस्य, कुशस्थलपतेः कुशस्थलाख्यजनपदाधीशस्य, प्रतापशीलस्य तत्संज्ञकनृपस्य कुसुमावली नाम तत्संज्ञिका, हिता, अस्तीति शेषः [ल ] । च पुनः, मार्जितमणिप्रदीपदीप्तदेहा मार्जितः - विशोधितः, यो मणिप्रदीपः - मणिरूपः प्रकृष्टोलं दीपः, तद्वत्, दीप्तः - उज्ज्वलः, देहः - शरीरं यस्यास्तादृशी इयं पुरोवर्तिनी या कन्यका, स्वदेहच्छायया स्वशरीकान्त्या, विद्याधरीगणं विद्याधरजातीयस्त्रीगणं, विच्छाययन्ती विगता छाया -कान्तिर्यस्य तादृशं कुर्वन्ती, मालिन्यमापादयन्तीत्यर्थः, अग्रतः अग्रे, निषण्णा उपविष्टा, आस्ते वर्तते; एषापि सैषापि कन्यका, यदुनरेन्द्रवंश विशेषकस्य यदुराजवंशतिलकस्य पुनः महेन्द्रमलयाद्रिमध्यवर्तिमेदिनीपाल मौलिसंघट्टमसृणमाणिक्यपादपीठस्य महेन्द्रमलयाद्रिमध्यवर्तिन - महेन्द्रमलयपर्वतवास्तव्यानां, मेदिनीपालानां नृपतीनां, मौलिसंघट्टेन - किरीटसङ्घर्षणेन, मसृणं-चिक्कणं, माणिक्यपादपीठं-मणिमयपादासनं यस्य तादृशस्य, पुनः हठगृहीतसकलदुष्टारातिकोशकाञ्चनस्य हठेन- बलात्कारेण गृहीतम् - आयत्तीकृतं, सकलानां समस्तानां, दुष्टानां दोषवताम्, अरातीनां शत्रूणां, कोशकाञ्चनं संगृहीतवित्तौघवर्ति सुवर्ण येन तादृशस्य, पुनः काञ्चीपतेः काञ्चीनगर्या अधिष्ठातुः, कुसुमशेखरस्य कुसुमशेखरनाम्नो नृपस्य मलयसुन्दरी नाम मलयसुन्दरी नाम दुहिता, अस्तीति शेषः [व] । च पुनः, निजसौन्दर्यनिर्जिताप्सरोरूपविभ्रमा निजसौन्दर्येण - स्वकीय स्वरूपशोभया, निर्जितः–तिरस्कृतः, अप्सरसां - स्वर्वेश्यानां, रूपविभ्रमः - स्वरूपशोभा यया तादृशी, या कन्यका, क्षीरसिन्धुफेन पटलस्य क्षीरसागरफेनराशेः, तलभागे, अधोभागे, लक्ष्मीरिव, पट्टांशुकवितानकस्य कौशेय सूक्ष्म श्लक्ष्णवस्त्रोल्लचस्य, तलभागे अधोभागे, तरलतारकं चञ्चलनेत्र कनीनिकं यथा स्यात् तथा, अवलोकयन्ती पश्यन्ती, वामतः वामभागे, अवलोक्यते दृश्यते, एषापि सैषापि, अशेषविद्वज्जनस्वयं ग्राहविलुप्तसकल गृह स्वापतेयस्य अशेषाणां समस्तानां, विद्वज्जनानां यः स्वयंग्राहः - स्वयमेव ग्रहणं, यथेच्छमादानमित्यर्थः, तेन विलुप्तं क्षीणं, सकलं, गृहस्वापतेयं गृहवित्तं यस्य तादृशस्य, पुनः कुसुमपुरसततवास सफलीभूतजन्मनः कुसुमपुरे - तदाख्यदिव्यपुरे, सततवासेन - निरन्तर निवासेन सफलीभूतं - सार्थकतामापन्नं, जन्म यस्य तादृशस्य, पुनः मनस्विनां बुद्धिशालिनां, धौरेयस्य अग्रेसरस्य, पुनः मगधेश्वरस्य मगधदेशाधिपस्य, सुरकेतोः तन्नाम्नो नृपस्य, शकुन्तला तन्नामा, दुहिता, अस्तीति शेषः [श ] । विरतनिद्रनीलोत्पलश्यामाभिरामवर्णा विरतानिवृत्ता, निद्रा संकोचो यस्य तादृशं यत् नीलोत्पलं- नीलवर्ण कमलं तद्वत् श्यामः - नीलः, अभिरामः- मनोहरश्च वर्णः - कान्तिर्यस्यास्तादृशी, अत एव स्वैरापतद्भिः स्वैरम् - अप्रतिहतं यथा स्यात् तथा, आपतद्भिः आगच्छद्भिः, परिमलान्धैः परिमलेसुगन्धे, अन्धैः–तदन्यदपश्यद्भिः, सुगन्धलम्पटैरित्यर्थः, अलिकदम्बकैः भ्रमरगणैः, दानलेखेव गजमदजलधारेव, आकुलीकृता व्याप्ता, यापि यापि कन्यका, मत्तवारणं उपवेशनस्थानविशेषं पक्षे मत्तकारिणम् अतिलङ्करो विभूषयति, अध्यास्ते २४ तिलक ० "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy