________________
तिलकमञ्जरी
१८३ मनसि धैर्यमग्रतः प्रत्याविरचितस्य लम्बितविचित्ररत्नदाम्नो देवाङ्गपटवितानकावगुण्ठितसकलक्षणस्य तत्क्षणानीतसमुद्रविद्रुमद्रुमदारुनिर्मितोदारमकरतोरणस्य द्वारदोलायमाननन्दनोद्यानतरुतरुणमणिप्रवालवन्दनमालस्य गगनमन्दाकिनीकनकारविन्दकृतनिरन्तरोपहारस्य हसत इवावचूलहारैर्नृत्यत इव ध्वजांशुकैर्गायत इव भृङ्गाङ्गनारावैर्विलोकयत इव मणिप्रदीपैश्चुम्बत इव मुखप्रतिबिम्बग्राहिभिः स्फटिकदर्पणैराश्लिष्यत इव दूरप्रसारितकरैश्चामीकरस्तम्भैर्जनसमाज सीम्नः समस्तरमणीयानां धाम्नस्त्रिभुवनाद्भुतानामतिमहावकाशकुक्षेर्माणिक्यमण्डपस्यैकदेशमनेकदिव्यनरनारीनिकुरम्बसंबाधमध्यासितवती [म] । सर्वतः प्रहिततरल. लोचना च तत्कालमङ्कुरितेन कौतुकेनैकदेशस्थितामार्यरूपधारिणीमेकामतिकान्तबहुवयसमङ्गनामुपगम्य सविनयमपृच्छम् -- 'आर्ये ! क एष कमनीयताकदर्थितसकलपृथ्वीदेशः प्रत्यादेश इव गीर्वाणभूमेरतिसेव्यसंनिवेशः प्रदेशः, क एते चित्ररत्नाभरणरमणीयाऽऽकल्पधारिणः कल्पतरव इव जङ्गमाः सौम्याकारवपुषः
टिप्पनकम्-स्त्रैणं-स्त्रीसमूहः [म] । प्रत्यादेश इव निराकरणमिव । आकल्पः-वेशः [य] ।
धैर्य असम्भ्रमम् , आधाय स्थापयित्वा, अग्रतः पुरोवर्तिनः, माणिक्यमण्डपस्य रत्नमण्डपस्य, एकदेशम् , एकभागम् , अध्यासितवती उपविष्टवती, कीदृशस्य ? प्रत्यग्रविरचितस्य अचिरनिर्मितस्य, अभिनवस्येत्यर्थः; पुनः लम्बितविचित्ररत्नदानः लम्बितम्-अवनमितं, विचित्राणां-नानावर्णानां, रत्नानां, दाम-माल्यं यस्मिंस्तादृशस्य; पुनः देवाङ्गपटवितानकावगुण्ठितसकलक्षणस्य देवाङ्गपटरूपेण-देवताङ्गसम्बन्धिवस्त्ररूपेण, वितानकेन उल्टोचेन, अवगुण्ठितः-आवृत्तः, सकल:-समस्तः, क्षणः-मध्यभागो यस्य तादृशस्य; पुनः, तत्क्षणानीतसमुद्रविद्रुमद्रुमदारुनिर्मितोदारमकरतोरणस्य तत्क्षण-तत्कालम् , आनीतस्य, समुद्रविद्रुमद्रुमस्य -समुद्रवर्तिप्रवालवृक्षस्य, दारुणा-काष्ठेन, निर्मितः-रचितः, मकरः-मकराकृति यस्मिंस्तादृशः, तोरणः-बहिरदेशो यस्य तादृशस्य; पुनः द्वारदोलायमाननन्दनोद्यानतरुतरुणमणिप्रवालवन्दनमालस्य द्वारदोलायमाना-द्वारदेशोत्क्षेप्यमाणा, नन्दनोद्यानसम्बन्धी-नन्दननामकदेवोद्यानसम्बन्धी यः, तरु:-वृक्षः-तत्सम्बधिनस्तरुणाः-परिणता ये मणिप्रवालाः-मणिपल्लवाः, तन्मयी, वन्दनमाला-द्वारपूजोपकरणमाला यस्य तादृशस्य; पुनः गगनमन्दाकिनीकनकारविन्दकृतनिरन्तरोपहारस्य गगनमन्दाकिन्याः-आकाशगङ्गायाः, कनकारविन्दैः-सुवर्णकमलैः, कृतःसम्पादितः, निरन्तर:--अविरलः, उपहारो यस्य यस्मिन् वा तादृशस्य; पुनः अ रैः शिरोलम्बिमाल्यैः, हसत इवः पुनः ध्वजांशुकैः पताकापटैः, नृत्यत इव गात्रमुत्क्षिपत इव; पुनः भृङ्गाङ्गनारावैः भ्रमरीगुञ्जितैः, गायत इव गानं कुर्वत इव; पुनः मणिप्रदीपैः मणिरूपैः प्रकृष्टदीपैः, विलोकयत इव पश्यत इव; पुनः मुखप्रतिबिम्बग्राहिभिः मुखप्रतिविम्वास्पदैः, स्फटिकदर्पणैः स्फटिकजातीयमणिरूपैर्दर्पणैः, चुम्बत इव चुम्बनं कुर्वत इव; पुनः दूरप्रसारितकरैः दूरप्रसारिताः-दूरविस्तारिताः, कराः किरणाः पक्षे हस्ता यैस्तादृशै, चामीकरस्तम्भैः सुवर्णस्तम्भैः, जनसमाजं जनगणम् , आश्लिष्यत इव आलिङ्गत इवेति सर्वत्रोत्प्रेक्षा; पुनः समस्तरमणीयानां सर्वसुन्दरवस्तूनां, धाम्नः स्थानस्य, अतिमहावकाशकुक्षेः अतिमहान्-अतिविस्तारः, यः, अवकाशः-रिक्तप्रदेशः, स कुक्षिः-मध्यं यस्य तादृशस्य; कीदृशमेकदेशम् ? अनेकदिव्यनरनारीनिकुरम्बसंबाधम् अनेकैः-बहुभिः, दिव्यनरनारीनिकुरम्बैः-दिव्यस्त्रीपुरुषसमूहैः, संबाधं-सङ्कीर्णम् [म]। च पुनः, तत्कालं तत्क्षणम् , अङ्कुरितेन प्ररूढेन, कौतुकेन औत्सुक्येन, सर्वतः सर्वदिक्षु, प्रहिततरललोचना व्यापारितचञ्चललोचना सती, एकदेशस्थितां तदेकभागेऽवस्थिताम् , पुनः आर्यरूपधारिणी सभ्यवेषधारिणीम् , एकाम् , अतिक्रान्तबहुवयसं व्यतीताधिकावस्थाम् , अङ्गनां नारीम् , उपगम्य समीपं गत्वा, सविनयं सादरम् , अपृच्छम् अहं पृष्टवती-'आर्य! श्रेष्ठे !, कमनीयताकदर्थितसकलपृथ्वीदेशः कमनीयतया-सौन्दर्येण, कदर्थितः-तिरस्कृतः, सकल:-समग्रः, पृथ्वीदेशो येन तादृशः, पुनः गीर्वाणभूमेः देवभूमेः, प्रत्यादेश इव निराकरणमिवेत्युत्प्रेक्षा, अतिसेव्यसन्निवेशः अतिसेव्यः-अत्यन्तसेवनाहः, सन्निवेशः-अवयवसंस्थानं यस्य तादृशः, एषः अयं, प्रत्यक्षभूत इति यावत्, प्रदेशः स्थानं, कः ?; पुनः चित्ररत्नाभरणरमणीयाकल्पधारिणः नानावर्णमणिमयालङ्करणमनोहरवेषधारिणः, पुनः जङ्गमाः गमनशीलाः, कल्पतरव इव कल्पवृक्षा इवेत्युत्प्रेक्षा, सौम्याकारवपुषः मनोज्ञावयवकशरीराः, एते प्रत्यक्षवर्तिनः,
"Aho Shrutgyanam"