SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी अपि च--पृष्ठप्रेडद्वलीनां श्रुतिशिखरहसच्चित्रमुक्ताफलानां, पूगत्वग्मार्जिताग्रद्विजमुकुलमिलञ्चन्द्रिकाईस्मितानाम् । तिर्यक्सीमन्तरेखाञ्चितचिहुरचयस्फारितैकेक्षणानामिन्दुर्दास्यं विधत्ते द्रविडवरवधूवक्रपङ्केरुहाणाम् ॥ २ ॥ [3] । किञ्च-संक्रान्तकान्तवनितानवकुङ्कमार्द्र पादारविन्दपदमण्डललाञ्छितासु । हाग्रभूमिषु सुधाधवलासु यस्यां, व्यर्थीभवन्ति विकचाम्बुरुहोपहाराः ॥ ३ ॥ [च] । प्राप्तप्राक्छेलकूटा इव कुचतटयोरोदयेनेव लीढा, रागेणोष्ठप्रभायां तिमिरभरमिव क्षेप्नुकामाः कबर्याम् । कुर्वाणास्तारकाभिः प्रणयमिव नखेष्वङ्गरङ्गे लुठन्तः, स्वर्गङ्गासैकतस्था इव निशि सुदृशां यत्र भान्तीन्दुपादाः ॥ ४ ॥ [छ । टिप्पनकम्-पृष्ठेत्यादिश्लोकः । वलिः-केशरचनाविशेषः, श्रुतिः-कर्णः, हसन्ति-देदीप्यमानानि, अञ्चितः-खचितः प्रशस्तो वा [ङ]। अपि च-किञ्च, इन्दुः चन्द्रः, द्रविडवरवधूवक्रपङ्केरुहाणाम् द्रविडेषु-द्रविडाभिजनेषु जनेषु ये वरा:-श्रेष्ठाः, तेषां या वध्वः-स्त्रियः, तासां वक्रपङ्केरुहाणां-मुखकमलानां, दास्यं दासतां, धत्ते धारयति, कीदृशानाम् ? पृष्ठप्रेडद्वलीनां पृष्ठे-पश्चाद्धागे, प्रेकन्तः-व्याधूयमानाः, वलयः-चामरदण्डा येषां तादृशानां, यद्वा प्रेयन्ती-दोलायमाना, वलिः-केशरचनाविशेषः रचनाविशेषमापन्नाः केशा येषां तादृशानाम् , पुनः श्रुतिशिखरहसच्चित्रमुक्ताफलानां श्रुतिशिखरे-कर्णो भागे, हसन्ति-दीप्यमानानि, चित्राणि-नानाविधानि मुक्ताफलानि मुक्तामणयो येषां तादृशानाम् , पुनः पूगत्वग्मार्जिताग्रद्विजमुकुलमिलच्चन्द्रिकाईस्मितानां पूगत्वचा-संगृहीतदन्तधावनोपयोगिवृक्षत्वचा, मार्जितं-विशोधितं शुभ्रतामापादितम. अग्रम्-अग्रभागो येषां तादृशैः, द्विजमुकुलैः-दन्तकुडालैः, पक्षे चन्द्रबिम्बेन, मिलन्ति चन्द्रिकारूपाणि, आर्द्राणि-सरसानि, स्मितानि-मन्दहासा येषु तादृशानाम्, पुनः तिर्यसीमन्तरेखाचितचिहरचयस्फारितैकेक्षणानां तिरश्चीनी-कुटिला या सीमन्तरेखा-केशवशरेखा, तया अश्चितः-खचितः प्रशस्तो वा, यः चिहुरचयः-केशपाशः, तेन स्फारितं-विस्तारितम् , एकम् , ईक्षणं-नयनं यैस्तादृशानाम् । अत्र अतिशयोक्तिरलङ्कारः ॥२॥ [ङ]। किश्च अपि च-यस्यां नगर्याम् , संक्रान्तेति संक्रान्तानि-संलग्नानि, कान्तानि-मनोहराणि, यानि वनितानां-स्त्रीणां, नवकुङ्कमार्द्राणि-नूतनकुङ्कुमद्रवक्लिन्नानि, पादारविन्दानि-चरणकमलानि, तेषां पदमण्डलेन-चिह्नगणेन, लाञ्छितासु-अङ्कितासु, सुधाधवलासु चूर्णद्रवोपलेपनशुभ्रासु, हाग्रभूमिषु धनिकजनग्रहोर्श्वभूमिषु, विकचाम्बुरुहोपहाराः विकसितकमलोपहाराः, व्यर्थीभवन्ति व्यर्थतामापद्यन्ते । अत्र व्यतिरेकालङ्कारो व्यङ्ग्यः ॥ ३ ॥ [च]। यत्र यस्यां नगर्याम् , इन्दुपादाः चन्द्रकिरणाः, स्वर्गङ्गासैकतस्था इव खर्गङ्गायाः-आकाशगङ्गाया यत् सैकतंवालुकामयं स्थलं, तत्स्थाः-तद्वर्तिन इव, भान्ति प्रतीयन्ते, कीदृशाः ? सुदृशां-सुन्दराक्षीणां स्त्रीणां, कुचतटयोः स्तनप्रान्तयोः, ओदयेन आ-समन्तात् , उदयेन-उद्भासनेन, प्राप्तप्राक्छेलकूटा इव प्राप्तः-अधिष्ठितः, प्राक्छेलकूट:-प्राक्छैलस्य-पूर्वगिरेः, उदयाचलस्येत्यर्थः, कूटः-शृङ्गं यस्तादृशा इव, पुनः रागेण रक्तिन्ना, ओष्ठप्रभायाम् ओष्टद्युतौ, लीढा इव व्याप्ता इव, अन्तर्हिता इवेत्यर्थः, पुनः कवर्यां केशपाशे, तिमिरभरम् अन्धकारराशि, क्षेत्रकामा इव निराकर्तुमिच्छव इव, पुनः नखेषु, तारकाभिः, प्रणयं प्रीति, कुर्वाणा इव उत्पादयन्त इव, अङ्गरले शरीररूपनृत्यशालायां, लुठन्तः आपतन्तः । अत्रोत्प्रेक्षालङ्कारः ॥ ४ ॥ [छ । "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy