SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी १६९ हेतुना विहाय विख्यातानि वैखानसाश्रमपदानि निर्जनारण्यवासिनी शून्यमेतज्जिनायतनमधिवससि ? किं चैष विषमसायकैकाधिवासे नवे वयसि विषयोपभोगविद्वेषः ? किं चानुवेलस्पन्दिताधरपुटा प्रष्टुकामेव वार्तामिष्टजनस्य कस्यचित् प्रीतिविशदैर्दृष्टिविक्षेपैः सरभसमवेक्षसे दक्षिणां ककुभम् ? कच्चिदास्ते कश्चिदिह गोत्रजः सुहृद् वा हृदयभूतः ? [ फ], इति वदत्येव मयि सहसैव तस्याः प्रकम्पितपयोधरो विधुतगलसरणिरतिपरिस्फुटस्फुरितनासापुटः प्रयत्नरुद्धोऽपि विषवेगवद् व्यापदङ्गमतिक्रान्तवैभवस्मरणयोनिमन्युः, अब्जवनमिव प्रदोषहिमजलेन मुकुलीभूतमीक्षणयुगमपूर्यत विसारिणा बाष्पनीरेण तत्क्षणनिबद्धरागायाश्च लोचनापाङ्गसरित: पूर्वहरित इव तरुणारुणज्योतिराहतायास्तारकासमूहः पपाताजस्रमश्रुकणविसरः [ब] । तां च दृष्ट्वा तथाविधामन्तरुपजातगुरुविषादो मनस्यकरवमहम्- 'अहो पूर्वजन्मान्तरसंचितैरशुभकर्मभिरायोजिताः सुनिपुणमपि निरूपितोपायैर्मनीषिभिरनीषत्कराः परिहर्तुमुपतापाः, येनेयमपहाय परमसंक्लेशहेतुं सकलसङ्गमेकाकिनी विगतमर्त्यसंचारे गुरुणि गिरिकान्तारे कृतस्थितिरने कयोजनशत व्यवहितमेकदेशेनैव संयोज्य टिप्पनकम् — मन्युः- दैन्यम् [ व ] | अनीषत्कराः अस्तोकक्रिया [भ] | पुनः केन हेतुना प्रयोजनेन विख्यातानि प्रसिद्धानि, वैखानसाश्रमपदानि तापसाश्रमस्थानानि विहाय त्यक्त्वा, निर्जनारण्यवासिनी निर्जनवनवासिनी सती, शून्यं जनरहितम्, एतत् इदं जिनायतनं जिनमन्दिरम् अधिवससि निवससि ?; च पुनः, विषमसायकैकाधिवासे विषमाः - विषमसंख्याः, पञ्चसंख्या इत्यर्थः सायकाः- बाणा यस्य स विषमसायकः कामदेवः, तस्य एकाधिवासे - प्रधानस्थाने, नवे यौवने, वयसि अवस्थायां विषयोपभोगविद्वेषः रूपरसाद्युपभोगविषयका प्रीतिः, किं किमर्थः ?; च पुनः कस्यचित् कस्यापि इष्टजनस्य अभिमतव्यक्तेः, वार्ता वृत्तान्तं, प्रष्टुकामेव प्रष्टुमिच्छुरिव, अनुवेलस्पन्दिताधरपुटा सततसञ्चालितोष्ठपुटा, प्रीतिविशदै: स्नेहधवलैः, दृष्टिविक्षेपैः नेत्र व्यापारैः, दक्षिणां ककुभं दिशं किं किमर्थम् ? सरभसं सवेगम्, अवेक्षसे पश्यसि गोत्रजः त्वद्वंशजः, वा अथवा, सुहृत् मित्रं, हृदयभूतः त्वदीयहृदयरूपः कश्चित् कोऽपि, इह् अस्मिन् स्थाने, आस्ते वर्तते, कञ्चित् किमु ? [फ ], इति इत्थं मयि वदत्येव प्रश्नावलीवाक्यं कथयत्येव, सहसैव शीघ्रमेव प्रकम्पितपयोधरः प्रकम्पितौ - उद्वेलितौ, पयोधरौ - स्तनौ येन तादृशः, पुनः विधुतगलसरणिः उत्कम्पितकण्ठमार्गः, अतिपरिस्फुटस्फुरितनासापुटः अतिपरिस्फुटम्-अतिविस्पष्टं यथा स्यात् तथा स्फुरितः - स्पन्दितः, नासापुटो येन तादृशः, अतिक्रान्तवैभवस्मरणयोनिमन्युः परित्यक्तपैतृकघनसम्पत्तिस्मरणजन्यशोकः, प्रयत्नरुद्धोऽपि प्रयासवारितोऽपि विषवेगवत् विषज्वालावत् अङ्गं शरीरं, व्यापत् व्याप्तवान् पुनः प्रदोषहिमजलेन रात्र्यारम्भ कालिकहिमवारिणा अब्जवनमिव कमलवनमिव, मुकुलीभूतं ईक्षणयुगं नेत्रद्वयं, विसारिणा विस्तारिणा, वाष्पनीरेण अश्रुजलेन, अपूर्यत पूरितम् । च पुनः तरुणारुणज्योतिराहतायाः तरुणेन - प्रौढेन, अरुणज्योतिषा-सूर्यसारथितेजसा, आहतायाः - आक्रान्तायाः, पूर्वहरितः पूर्वदिशः सकाशात्, तारकासमूह इव तारागण इव, तत्क्षणनिबद्धरागायाः तत्कालधृतरक्तकान्तिकायाः, लोचनापाङ्गसरितः नयनप्रान्तभागात्मकनद्याः, अश्रुकणविसरः नयनजलकणगणः, अजस्रम् अनवरतं, पपात पतितः [ब] च पुनः, तां तापसकन्यकां, तथाविधां दुःखितां दृष्ट्रा अवलोक्य, अन्तरुपजातगुरुविषादः अन्तः - अन्तःकरणे, उपजातः - उत्पन्नः, गुरुःअधिकः, विषादः-दुःखं यस्य तादृशः, अहं मनसि स्वहृदये, अकरवं व्यचारयम् । अहो आश्चर्य, पूर्वजन्मान्तरसञ्चितैः अतिक्रान्तान्यान्यजन्मसंगृहीतैः, अशुभकर्मभिः पापकर्मभिः, आयोजिताः उत्पादिताः, उपतापाः- दुःखानि, सुनिपुणमपि सुष्टुतरमपि निरूपितोपायैः आलोचितप्रतीकारैः, मनीषिभिः पण्डितैः परिहर्तुं निवारयितुम्, अनीषत्कराः असुकराः, येन यस्मात् कारणात् परमसंक्लेशहेतुम् अत्यधिकक्लेशकारणं, सकलसङ्कं सर्वसम्पर्कम्, अपहाय त्यक्त्वा, एकाकिनी असहाया सती, विगतमर्त्यसञ्चारे मनुष्यसञ्चाररहिते, गुरुणि विशाले, गिरिकान्तारे पर्वतवने, कृतस्थितिः कृतनिवासा, अनेक योजनशतव्यवहितम् अनेकैः - बहुभिः, योजनशतैः -क्रोशचतुष्टयशतैः, व्यवहितम् - अन्तरितमपि, मामू, एकदेशेनैव स्वाधिष्ठितदेशेनैव, संयोज्य सङ्गमय्य, दैवेन विधिना, महानुभावा महामान्या, इयमिति शेषः, ईदृशस्य अनुपदोक्तप्रकारकस्य, २२ तिलक० "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy