SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ व्युत्पत्तिवादः 'शास्त्रार्थकला'-परिष्कृतः शाब्दबोधे चैकपदार्थेऽपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते। श्रीमते रामानुजाय नमः नत्वा च विष्णु भगवन्तमाद्यं रामानुजं योगिवरं यतीन्द्रम् । . श्रीवैष्णवौ सत्पितरौ गुरुञ्च प्रारभ्यते कार्यमिदं हिताय ॥ १ ॥ व्युत्पत्तिवादे विमलाश्च टीका यद्यप्यनेका विलसन्ति लोके । शास्त्रार्थयुद्धे विजयां विचित्रां टीकान्तु शास्त्रार्थकलान्तनोमि ॥ २ ॥ काशीप्रयागावधमध्यवर्ती कृतश्रमशास्त्रनिकुञ्जपुले । व्याख्याम्परिकारततिप्रभूतान्तथा परीक्षाफलदामजनम् ॥ ३ ॥ सरयूपारीणशुक्लो वेणीमाधवनामकः।। टीकामेनाम्परिष्कृत्य मुहुस्सद्भ्यस्समर्पये ॥ ४ ॥ ननु नैयायिकमतेऽस्तीश्वर इति कथङ्कारमादौ शिष्टाचारपरम्पराप्राप्तम्मङ्गलन्न कृतमिति चेन्न १६४ चतुष्पष्टिवादा गदाधरेण कृता इत्यादिवादे मङ्गलस्य सत्वेनात्रासत्वेऽप्यदोषात् , वस्तुनिर्देशात्मकमङ्गलस्य सत्त्वाच्च । व्युत्पत्तीवेंदतीति व्युत्पत्तिवादः कर्मण्यण कुम्भकारादिशब्दवत् । शाब्दबोध इति । शब्दादागतश्चाब्दः "तत आगत" -------------------- ध्यात्वा भवानीशमशेषशाखजनिप्रदं भक्तजनानुरक्तम् । पित्रोः पदद्वन्द्वमथाभिनत्य तम्वे गुरूणाम्पदपङ्कजालिः ॥ १ ॥ श्रीराजनारायणशर्मशुक्लो विद्वज्जनानां हृदयानुरक्तः। कृताच शास्त्रार्थकलान्निजेन पित्रा यथाबुद्धि सटिप्पणीभिः॥२॥ शाम्दबोधे चेत्यत्र अवसरसंगतिस्सचिता भट्राचार्यः। संगतित्वञ्च अनन्तराभिधानप्रयोजकजिशासाजनकमानविषयत्वम् । सा च सङ्गतिः षोढा ।
SR No.008450
Book TitleVyutpattivada Shastrarthakala Tika
Original Sutra AuthorN/A
AuthorVenimadhava Shastri
PublisherChaukhamba Vidyabhavan
Publication Year
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy