________________
शास्त्रार्थकलापरिष्कृतः हात्मनि ज्ञानमिहाकाशे शब्द इतीह बुद्धिरुत्पद्यमाना न विना सम्बन्धमुत्पत्तुमर्हति तेनानुमीयते अस्ति कश्चित्सम्बन्ध" इति स वाक्यार्थे कस्मादागत इत्याशयेनाह शाब्दबोधे चैकेति ।
इति परीक्षालेखप्रकारः ।
अथ शास्त्रार्थप्रकारः। अपौरुषेयवेदनिष्ठकर्ममात्रसमर्थकानीश्वरवादिमीमांसकमतं खण्डयन्नप्याह शाब्दबोधे चैकेति । तथाहि, मीमांसकमते घटपदाद् घटोपस्थितिः योग्याऽस्त्यादिक्रियासम्वन्धः, अर्थनिष्ठाकाङ्क्षायोग्यताज्ञानादिकारणसामग्रीसत्त्वादस्तित्ववान् घट इति शाब्दबोधोऽर्थाध्याहारिसम्मतः । किञ्च "पश्यतः श्वेतिमा रूपं हेषाशब्दश्च शृण्वतः । खुरविक्षेपशब्दञ्च श्वेतोऽश्वो धावतीति धीरि”ति तदीया कारिका । श्वेतादिबोधकपदाऽभावेऽपि श्वेतोऽश्वो धावतीतिशाब्दबोधो मीमांसकाभिमत इति च । एवञ्च अर्थनिष्ठाकाङ्क्षायोग्यतादिशानन कारणं शाब्दबोधे किन्तु पदनिष्ठाकाङ्क्षायोग्यतादिज्ञानमेवेति तन्मतनिरोधपूर्वकपदनिष्ठाकाङ्क्षाप्रयोज्यसंसर्गस्यैव शाब्दबोधे कारणत्वमिति खण्डनतात्पर्येण प्रदर्शयति शाब्दबोधे चैकेति नैयायिकाः । किञ्च मीमांसकमते कार्यकारणभावस्तु तत्पदजन्यतद्विषयकशाब्दबोधे तत्पदनिष्ठवृत्तिज्ञानाधीनतद्विषयकोपस्थितिः कारणम् । वृत्तिज्ञानाधीननिषेधफलन्तु घटपदजन्यघटविषयकशाब्दबोधे समवायसम्बन्धेन सम्बन्ध्याकाशविषयकशाब्दबोधवारणमेवाकाशोपस्थितेर्वृत्तिज्ञानजन्यत्वाऽभावात् । कार्यकारणभावसमन्वयश्च नीलो घट इत्यादौ, तथाहि-नीलपदजन्यनीलविषयकशाब्दबोधम्प्रति घटपदजन्यघटविषयकशाब्दबोधम्प्रति च नीलघटपदनिष्ठवृत्तिज्ञानाधीननीलघटविषयकोपस्थितेस्सत्त्वात् । एवमन्यत्राऽपि । ननु तन्मते नीलो घट इति वाक्यजन्याऽभेदसंसर्गकनीलत्वावच्छिन्नप्रकारताकघटत्वावच्छिन्न-विशेष्यताकशाब्दबोधेs. भेदसंसर्गप्रवेशो न स्यात् तत्पद निष्ठवृत्तिज्ञाधीनाऽभेदसंसर्गोपस्थितेरभावात् कार्यकारणभावघटतद्विषयकशाब्दबोधम्प्रतीतिकार्यदलङ्गच्छति परन्तु कारणदलन्न गच्छतीतिहेतोः कार्यतावच्छेदकानाक्रान्तत्वेन कथङ्कारं कार्यसिद्धिः ? कारणात्कार्यमुत्पद्यत इति नियमविरोधात् । शाब्दबोधे सम्बन्धानां स्वातन्त्र्येण प्रवेशश्चेत्तर्हि विनिगमनाविरहेण अबाधितकालिकादिसम्बन्धप्रवेशापत्तौ महदनिष्टमापद्येत । न च मीमांसकमते संसर्गभिन्न तद्विषयकशाब्दबोधत्वावच्छिन्नम्प्रति तत्पदनिष्ठवृत्तिज्ञानाधीनोपस्थितिः कारणमितिकार्यकारणभावेन नास्ति हेत्वनाक्रान्तत्वं दलद्वयमपि संसगांशन्नावगाहत इति न व्यभिचार इति वाच्यम् ? गौरवात् तादृशनिषेधानहत्वात् इति चेन्न, अन्वितो घटो घटपदशक्य इत्यादिक्रमेण तत्तत्ससर्गविशिष्टघटादित्वावच्छिन्ने घटादिपदशक्तरङ्गीकारः। न च यथा नीलो घट इति शाब्दबोधे वृत्त्याऽमेदप्रवेशस्तथा विनिगमनाऽभावात्कालिकादिसम्बन्धप्रवेशो दुरि इति वाच्यम् ? शाम्दबोधे सम्बन्धमा