________________
(२३८) गीतभाषास्वरग्रामभेदलक्षणं मष्टात्रिंशदुत्तरद्विशततमं सूत्रम्
विश्वकर्मोवाच
सप्तस्वरालयोनामा मूर्च्छना स्वेकविंशतिः।। ताना एकोनपञ्चाशदित्येतत्स्वरमण्डलम् ॥१॥ सप्त स्वराश्च गीयन्ते सारिगमपधनिभिः । चत्वारस्तत्र स्वंदेश्य ? यस्त्रयो विवर्जिताः ? ॥ २ ॥ षड्जश्चर्षभगान्धारी मध्यमः पञ्चमस्तथा । धैवतश्च निषादश्च स्वराः सप्तव सम्मताः ॥ ३ ॥ पड्ज वदेन्मयूरश्च गावो रवन्ति वर्षभम् । अजा वदन्ति गान्धारं कौंचनार्यस्तु मध्यमम् ॥ ४॥ पुष्पसाधारणे काले कोकिलाः पञ्चमं तथा। अश्वाश्च धैवतं प्राहु निंपादं रौति कुञ्जरः ॥ ५ ॥ कण्ठे व्यामुच्यते षड्ज ऋषभ: शीर्षके तथा । नासिकायां तु गान्धार उरस्तो मध्यमस्तथा ॥६॥
.................. । लुप्तम् निषादः सर्वतो ज्ञेयः स्वरा इत्थं च स्थानतः ॥ ७ ॥ पनपत्रनिभः षड्ज ऋषभः स्यात्कापिालः। गान्धारः कय्राकार: कुन्देन्दुप्रभमध्यमः ॥ ८॥ पञ्चमस्तु भवेत्कृष्णो धैवतः पीतवर्णकः। निषादः सर्ववर्णध स्वरा इत्थं च वर्णतः ॥ ९॥ अग्निश्च सबिता सोमो गुरुश्च बरुणस्तथा । इन्द्रश्च विश्वदेवाश्च स्वराणामधिदेवताः ॥ १० ॥ अग्निश्च काश्यपश्चैव गौतमश्चागिरास्तथा । भार्गवः कौशिकश्चैव वसिष्ठो गौत्रकारकाः ॥ ११ ॥ हृदयं कण्ठतालू च त्रयो योगाः प्रकीर्तिता । एकैक.स्वरविश्रान्ता स्तिमस्तिस्रश्च मूर्च्छनाः ॥ १२ ॥ ताना एकोनपञ्चाशदुच्यन्ते सप्तसततः। समा (उदा) हरेदगीतवेदं ज्ञात्वेति स्वरमण्डलम् ॥ १३ ॥
इति सप्तस्वराधिकारः ॥ देशगीतमार्गभाव रागोत्पत्यादिकं तथा । ............ भाषोत्पत्ति तव वक्ष्याम्य नुक्रमात् ॥ १।। श्रीरागश्च वसन्तश्च पञ्चमो भैरवस्तथा। मेघरागश्च विशेयः षष्ठो नट्टनरायणः ॥ १५॥ .