________________
(१९१) वितानदेवतानुक्रमो नामैकनवत्युत्तरशततमं सूत्रम् ।
विश्वकर्मोवाच
पनं चैव विकाशं च ह्यष्टपत्रं सुकर्णिकम् । छत्रं च नागवीथी च पुष्पकं भ्रमरावली ॥१॥ आद्योत्पत्तिर्वितानानां सूत्रसम्पातचित्रकम् । पते चाष्टवितानाश्च कर्तव्यात्रिपुरान्तके ॥२॥ नाभ्यं नाभ्युद्भवं चैव श्रीवत्सं च मालाधरम् । नन्दास्यं सूर्योद्भवं च गरुडं वैष्णवं तथा ॥३॥ नाभिच्छन्दोद्भवा आद्या स्तत्र सम्पातकर्णिका । एते चाष्टवितानास्तु कर्तव्या गरुडध्वजे ॥ ४ ॥ कमलं कमलोद्भवं शङ्कावर्त मेघोदरम् । महाप- महाकान्तं हंसं वै हंसपक्षकम् ॥५॥ आदिसृष्टयुद्भवकाले प्रयुक्ताः परमश्वरे । एते चाऽष्टवितानाश्च कर्तव्याः परमेष्ठिनि ॥६॥ व्योमं व्योमाई किरणं व्योमाक्षं सर्वसुन्दरम् । मेघच्छत्रं महाबिम्बं दीप्तं कुर्याश्च भास्करे ॥ ७ ॥ पद्मनाभं सुगम्भीर सिंहकर्ण पताकिनम् ।। घण्टानादं महानादं तिलकं सर्वसुन्दरम् ॥ ८॥ पार्वत्यादिकदेवीनां चण्डिकायाः श्रियस्तथा। एतान्यष्टवितानानि कर्तव्यानीश्वरीषु च ॥९॥ सभापद्मं कुञ्जरं च मेघराज्य मेघोद्भबम् । हर्षे च मोदकं शान्तं विजयं च गणाधिपे ॥१०॥ सभामन्दारकं रम्यं हर्ष च वसन्तोद्भवम् । बसन्ततिलकं सैन्य विचित्रं च चूडामणेः ॥ ११ ॥ वीतरागे तथा बौद्ध मण्डपे स्युर्नपा (जिनालये। एते चाऽष्टवितानाश्च वीतरागेऽति शान्तिदाः ॥ १२ ॥ कमलोद्भवं रम्यं च विचित्र चित्रकर्मकम् । तारागणं वृद्धिरामं सुच्छत्रं च विमानकम् ॥ १३ ॥ एते चाऽष्टवितानाश्च कार्याः सर्वसुरेषु च। श्रियं शान्तिीप्सितं च लभेते कर्तृकायरी ॥ १४ ॥