________________
(१४१) रेखार्णवस्कन्धोदयकलाभेदो नामैकचत्वारिंशदुत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच --
-
सव्यालं शिखरं कार्य सकलः शिखरोच्छ्रयः । व्यासस्य कर्णयोर्मध्ये द्विघ्नं चैव त्रिभिर्हताः ॥ १ ॥
सूत्ररेखोच्छ्रिता रेखा सङ्ख्यायां पञ्चविंशतिः । नामानि कथयिष्यामि सव्यासादेर्यथाक्रमम् ॥ २ ॥ सव्यासा शोभना भद्रा सुरूपा सुमनोरमा । शुभा
चैव तथा शान्ता कौबेरी च सरस्वती ॥ ३ ॥
कौलाच करवीरा च कुमुदा पद्मिनी तथा । कनका विकटा चैव रम्या च रमणी तथा ॥ ४ ॥
वसुन्धरा तथा हंसी विशाखा नन्दिनी तथा । जया च विजया चैव सुमुखा च प्रियानना ॥ ५ ॥ इत्येताः कीर्तिता रेखाः सङ्ख्यया पञ्चविंशतिः । उदयभेदोद्भवाः ख्याताः सपादकर्णमध्यतः ॥ ६ ॥ इत्युदयभेदाः । पञ्चखण्ड खण्डद्ध एकोनत्रिंशकावधि | खण्डनारे कला ज्ञेया अङ्कवृद्धिक्रमेण तु ॥ ७ ॥ एकद्वित्रिचतुः पञ्चषट्सप्ताष्टक मोद्वताः । अनेन क्रमयोगेन एकोनत्रिंशकावधि ॥ ८ ॥ पञ्च खण्डे कलाश्चैव खङ्ख्यया दशपञ्च च । एकोनत्रिंशे पञ्चत्रिंशदुत्तरं चतुःशतम् ॥ ९ ॥ चन्द्रकल्पा कलावती कलधौता च रुधिरा । मिलादुन्दुभिर्वनवाटिका ॥ १० ॥
रत्नचूला वृन्दारका त्रिशिखा नन्दा कौमुदी |
न्च
नयना चक्रा चोन्मत्ता विशाला विभ्रमा लता ॥ ११ ॥ हाशि फुयूहर्मजूर 1 मृगाक्षी द्वीपिनी शशी कौमुदी मञ्जरी तथा । पूर्णरस्या च माहेन्द्री कीर्तिपताका तत्परे ॥ १२ ॥ त्रैलोक्यविजया चैव नामभिः पञ्चविंशतिः । कलारेखाः समाख्याताः सर्वकामफलप्रदाः ॥ १३ ॥
इति कलामेोद्भवा रेखाः ।