________________
(१०१)द्वारलक्षणमेकाधिकशततमं सूत्रम्।।
विश्वकर्मोवाच
एकाशीतिपदे वास्तौ द्वात्रिंशदेवतापदे । पूर्वापरयाम्योत्तरे वच्मि द्वाराणि वै क्रमात् ॥१॥ ईशे रौद्रं भवेद् द्वार पर्जन्ये स्त्रीवियोगकृत् ।। जये विजयदं ख्यातं माहेन्द्रे प्रभुतैधकृत् ॥२॥ तेजावद्धिः सदादित्ये धर्मे वै शीलतः सुखम् । सुखदं भृत्यदेवे तु चान्तरिक्षे सदा सुखम् ॥ ३॥ अग्निस्थाने वह्निभयं पूष्णि चैव भयावहम् । अनारोग्यं तु वितथे बलदं च गृहक्षते ॥४॥ मृत्युश्च यमसंस्थाने गन्धर्वे च धनंजयः। भृङ्गराजे नैव सुखं शौर्य विक्रमदं मृगे ॥५॥ आयुरप्रदं पितृपदे श्रीदं दौवारिके तथा । सुग्रीवे कपिबाहुल्यं पुष्पदन्ते तथार्थदम् ॥ ६॥ आरोग्यशान्ती वरुणे चासुरेऽर्थक्षयप्रदम् । हीनवृद्धिकरं शोषे पक्षघ्नं पापयक्ष्मके ॥ ७ ॥ सद्य उच्चाटनं रोगे नागे चोन्मादतो भयम् । मुख्येऽभीष्टप्रदं चैव भल्लाटे चार्थवृद्धिकृत् ॥८॥ वृद्धिश्च क्षीणता सोमे सदोद्वेगस्तु पर्वते । वृद्धिर्वृद्धिश्चादितौ च दितौ चैवाभिमानकृत् ॥९॥ बास्तोश्च परिधावुक्ता द्वात्रिंशदमरा: क्रमात् । शुभद्वारं तु गृह्णीयादशुभं नैव गृह्यते ॥ १० ॥ दिशाभागेषु च तथा द्वारं शोभनमण्डितम् । इन्द्रगृहक्षतपुष्पदन्तभल्लाटचिह्नतः ॥ ११ ॥ मीने सिंहे वृश्चिके च गृहं स्यात्पूर्वतोमुखम् । याम्यं कन्यानक धनुस्तुलायुग्मेऽपरम् ॥ १२ ॥ वषे मेषे तथा कुम्भे तत्कुर्यादुत्तरामुखम् । द्वारं दिग्भागतो न्यसेद् गहपादश्चानुजन्मनि ? ॥ १३ ॥ पूर्वतोऽभिमुखं वेश्म ध्वजे चाये तु शान्तिदम् । याम्यतोऽभिमुखं गेहं सदाकल्याणकारकम् ॥ १४ ॥ गहं च वारुण शस्तं धनधान्यादिकं भवेत् । कौबेरीमुखगेहं च शान्तिपुष्टि सुखावहम् ॥ १५ ॥