________________
(७९) गजशालाप्रमाणहस्तिलक्षणकमेकोनाशीतितमं सूत्रम् ॥
विश्वकर्मोवाच
लक्षणं गजशालानां कथयिष्याम्यनुक्रमात् । षट्त्रिंशद्भिः पदैर्भक्तं क्षेत्रं विंशतिभिः करैः ॥ १॥ वेदांशमध्यगर्भाव्यं गजस्थानं महोत्तमम् । दृढस्तम्भं भवेन्मध्यं घटैनवकरैर्युतम् ॥२॥ अलिन्दवेष्टितं भागे भागे भित्त्या च संयुतम् । विस्तरोच्छूयतुल्यश्च पट्टानामुदयो भवेत् ॥३॥ भित्तित्रयसमायुक्तं द्वारमादिशान्तिके । छाद्यत्रयं क्रमयुक्तं घण्टाकलशभूषितम् ॥ ४॥ दन्तिनी नाम विज्ञेया शाला विघ्नहरी सदा । अलिन्दयुक्तं भूस्थानं भित्तिर्बाह्ये तु भागिका ॥५॥ तस्या द्वारप्रदेशे तु कर्त्तव्यौ कूपरावुभौ । कर्णप्रासादिका कार्या द्वितीयालिन्दसंयुता ॥६॥ द्वे द्वे वातायने कुर्याद द्विद्विदिक्षु त्रिभित्तिकाः । प्राग्ग्रीवोऽने भवेच्छाला सुभद्रेयमुदाहृता ।। ७॥ अस्या एव यदा स्यातां प्राग्नीवौ पार्श्वयोर्द्वयोः । तदा सुभोगदा नाम तृतीया परिकीर्तिता ॥ ८॥ . अस्या एव यदा पश्चात् प्राग्ग्रीवः क्रियतेऽपरः। भद्रिका नाम शाला सा तदा द्विरदपुष्टिदा ॥९॥ पञ्चमी चतुरधा स्याद् वर्षिणी नाम पूजिता। प्राग्नीवालिन्दनियूह-हीना षष्ठी तथा परा॥१०॥ शाला प्रमारिका धान्यधनजीवितहारिणी । तदेतां वर्जयेदन्याः कुर्यात्सर्वार्थसिद्धये ॥ ११ ॥ प्रमाणमिति शालानां हस्तिशालाः क्रमोदिताः। षड्विधच्छन्दजा उक्ता वित्तजीवितवृद्धये ॥ १२॥
इति षड्विधा गजशालाः ॥ अथातः संप्रवक्ष्यामि हस्तिनां लक्षणं परम् । गजा भद्रो मृगो मन्द्रः सङ्कीर्णध चतुर्विधाः ॥ १३ ॥ मुखन्ये (स्य) द्विगुणा दैर्घ्य दीर्घाजे अठरं भवेत् ? । जठराद्धं भवेद् गात्रं गात्राई करमूलतः॥१४॥