________________
अपराजितपृच्छा षट्त्रिंशत्तश्च षड्वृद्धौ विदुरष्टोत्तरं शतम् । पुरे प्रासादसंख्याभिर्देवस्थानानि चत्वरे ॥१५॥ पुर्मानानि द्वादशैव चत्वरं देवसङ्ख्यया । अनुक्रमेण कर्त्तव्यं पुरच्छन्दानुरूपतः ॥ १६ ॥ नोत्तराभिमुखाः कार्या न देवा दक्षिणमुखाः। पूर्वापरमुखाः कार्या वास्तुशास्त्रेषु गीयते ॥ १७॥ पुरप्राकारबाह्ये तु देवा यत्र च संस्थिताः। नगराभिमुखास्त्वेव मध्यमे च पराकखाः ॥ १८॥ परामखाः स्थिता ये तु शिवः सूर्यों विधिर्हरिः । हन्यते तत्पुरं राष्ट्र राज्यध्वंसश्च जायते ॥ १९ ॥ प्राकारोच्छयाद् द्विगुणं तदन्ते परिखात्रयम् । अम्भो ? विमार्गशस्तादिविदिक्षु च जलाश्रयाः ॥ २० कनिष्ठे च पुरे पादात् मध्यमे च पदार्धतः । षोडशांशात् पुरे ज्येष्ठे ह्यतिरिक्ते च बाह्यतः ॥ २१ ॥ प्रतोली राजगेहाने राजमार्गस्तदग्रतः । विस्तीर्णा विंशतिकरैर्द्धिरष्टद्वादशाधमा ॥२२॥ हट्टश्रेणिस्ततः कार्या षोडशांशेन मार्गतः । बलिकर्मसमस्तानां हट्टोपरि गृहोत्तमम् ॥ २३ ॥ विदिशासु पुरं कार्य जगत्यास्त्रिगुणं शुभम् । युग्मगृहाश्च कर्त्तव्याः पक्षयोश्चैव सन्मुखाः ॥ २४ ॥ प्रासादस्य प्रमाणेन पादोनेनाथवोच्यते । प्रासादार्धातु कर्तव्या ज्येष्ठमध्यकनिष्ठिकाः ॥२५॥ एकभौमा द्विभौमा वा शाला निर्गमभूषिता। मत्तवारणसंयुक्ता निर्गताश्चित्रशालिकाः ॥ २६ ॥ जगत्यग्ने वामन स्याद् भिट्ट तद्भवि संस्थितम् । महोत्सवे च वासन्ते कुर्याद्धिन्दोलकं त्यिह ॥ २७ ॥ देवस्य परतः कार्या निगूढा नृत्यशालिकाः । पूर्वस्यामथवाग्नेय्यां वायव्ये वारुणे शुभम् ॥ २८ ॥ शेषासु प्रशस्ताश्च आग्नेय्यां सत्रमण्डपम् । वास्तुवेदीसंस्थितं तन् मठः स्थाप्यस्तु दक्षिणे ॥ २९॥ गृहं पञ्चारिकायुक्तं मैत्रस्थानसमाश्रितम् । यतिध्यानालयं कुर्यात् प्रलीना यत्र शासने ॥३०॥