________________
१७६
अपराजितपृच्छा अतःपरं प्रवक्ष्यामि नगराणां च लक्षणम् । नाम्ना तु रत्नकूटं तद् विज्ञातं वसुधातले ॥ १६ ॥ चतुरचं समं क्षेत्रं भुजकर्णविशोधितम् । भाजयेद्वा षोडशांशैर्विविधैा पदैस्तथा ॥ १७ ।। ब्रह्मस्थानं तु संगह्य चैकाशं वामदक्षिणम् । तच्चैकं तु विधा कृत्वा पुन चैकमेव हि ॥ १८॥ द्वौ द्वौ तु भागसंस्थाने च्चैकद्वयं त्रयं तथा । चत्वारश्च चतुर्दिक्षु पदसङ्ख्यां विभाजयेत् ॥ १९ ।। गहाणां जायते सङ्ख्या त्वेकमेव सहस्रकम् । पदांशषटकविस्तारं तदशं निर्गमं विदुः॥ २०॥ चतुर्दिश्च विधातव्यं भद्रस्थानं मनोहरम् । चतु:कर्णास्तु प्रासादे मार्गाः सप्तदश स्मृताः ॥ २१ ॥ द्विपञ्चाशत् सप्तहस्ता ज्ञातव्या अत्र पण्डितः । द्वात्रिंशन्मध्यवंशे तु चत्वारः षोडशान्विताः ।। २२ ।। सीमान्ते कर्णकर्णेषु चतुर्विंशतिकाः स्मृताः। अष्टौ मागा द्वादश च हस्तसङख्या निगद्यते ।। २३ ।। चत्वारिंशच्च चत्वारो द्विशतं गर्भमध्यतः। कर्णे कर्णे च सीमान्ते शेषा विंशतिकान्विताः ॥ २४ ॥ नामपादप्रमाणं च संस्थानोन्मानलक्षणम् । सर्वेषामीदृशं मान निर्मितं विश्वकर्मणा ॥ २५ ॥ चतुरं तु कैलासं चतुच्यष्ट ? समन्वितम् । स्थापयेद् ब्रह्मकेन्द्रेषु ब्रह्माणं च पितामहम् ॥ २६॥ सरस्वती तथेशान्यां वायव्यां तु जनार्दनम् । नैऋत्ये च सहस्राक्षमाग्नेय्यां तु गणाधिपम् ॥ २७ ॥ सर्वेषामीदृशं स्थानं ज्येष्ठमध्यकनिष्ठकम् । कुर्यात् कनिष्ठके प्राज्ञो मध्यस्थाने चतुष्टयम् ॥ २८ ॥ शात्वा नगरचितानि द्विरप्टकैकेन ? शिल्पिभिः । न्यूनाधिकं च द्वाराणां सूत्र संबोध्य बोधकम् ? ॥ २९ ॥ रत्नकूटाभिधानं च गृहसङ्ख्या सहस्रतः। ज्येष्ठनागरमानं च सूत्रे चैव प्रसारिते ॥ ३०॥ द्वारप्राकारकाद्यं च गृहोपस्करमेव च । पूर्वोक्तं तु विधातव्यं द्विजदेवालयस्तथा ॥ ३१ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
हेमकूटाख्यनगरप्रमाणसूत्राधिकारो नामैकसप्ततितम सूत्रम् ॥