________________
(४९) सूत्रधारपरीक्षा नामैकोनपञ्चांशं सूत्रम् ॥
विश्वकर्मोवाच
कर्माधिपस्य कर्तव्या परीक्षा शिष्यवत्तथा । त्रिभावे निःस्पृहो दक्षः कर्तव्यः कर्मनायकः ॥१॥ यथा चतुर्भिः कनकं शिष्यवच्च परीक्ष्यते । ताडनच्छेदतापैश्च घर्षणैः पुरुषस्तथा ॥२॥ उद्यमः साहसं धैर्य बलं बुद्धिः पराक्रमः । यस्मिन् भृत्ये चिह्वषट्कं तस्माद् देवोऽपि शङ्कते ॥ ३॥ पूर्व परीक्षितो भृत्यस्तस्य द्रव्यं निवेदयेत् । स्वामिकार्यकरो नित्यमसाध्यं साधयेद् ध्रुवम् ॥ ४ ॥ सुशील: सुगुणो भृत्यः सुकुलः सत्यताधिकः । सोद्यमो विनयैर्युक्तो विभवे निःस्पृहो धुवः ॥५॥ परदारधनत्यागी प्रियालापी च देशजः । स्वामिकार्यकरो नित्यं त्रैलोक्यं तस्य शङरम् ॥ ६॥ सुभृत्यः सुगुणैर्युक्तः शीलवांश्च विवेकवान् । क्रमजातकुले जातो महासत्यप्रियंवदः ॥ ७ ॥ संयमैर्नियमैर्युक्तस्त्रिभावे निःस्पृहो ध्रुवम् । स्वामिकार्यकरो नित्यं त्रैलोक्यं तस्य गोचरम् ॥ ८॥ प्रारब्धं तु भवेद् यावत्तावद् वंद्येषु भावना । तादृशं कारयेद्भाव खलु देवेषु यादृशम् ॥९॥ देवपादे स्वरूपेण पूर्णभावे सदास्थितः । अर्थसामर्थ्यदानेन स्वामिपुण्यं तु धार्यते ॥ १०॥ सुदानेषु रतो नित्यं सुभृत्यः प्रभुकाम्ययोः । स्वामी सुहृत्संयोगे तु जल्पे किंकरतां व्रजेत् ॥ ११ ॥ स्वयं धराधिपो वत्स बहुकर्मसु संस्थितः । नित्यं सन्मानोधमनधर्मकर्मादिकारकः ॥ १२॥ दातव्यं वस्त्रताम्बूले खाद्यं पानं दिने दिने । सन्मानं जन्मतो दद्यात् प्रियालापैः सुनित्यशः ॥ १३ ॥ असहाये कुतः सिद्धिर्धनहीनः पराजितः। पुष्कलं साधनं यस्य सिद्धिस्तस्य करे स्थिता ॥ १४ ।। बहुवित्तचयो वत्स बुद्धिसोद्यमसाहसैः । सूत्रमन्त्रं सुभृत्यैश्च स्यात्सदा च सुखी नृपः ॥ १५ ॥