________________
(४४) अवकहोडाचक्रज्योतिषं चतुश्चत्वारिंशं सूत्रम् ॥
विश्वकर्मोवाच
आदित्यसोमभौमाश्च बुधश्चाथ बृहस्पतिः । शुक्रः शनिश्चरश्चैते सप्तसूर्यादिवासराः ॥ १ ॥ नन्दा भद्रा जया रिक्ता पूर्णा स्यात् पञ्चमी तथा। पञ्च पञ्च तथा पञ्च मालार्धेषु यथातिथि ॥ २ ॥ प्रतिपदूषष्ठयेकादशी नन्दा भद्रा द्वयश्वार्ककाः । जया त्र्यष्टत्रयोदश्यो रिक्ता चेदाइशक्रतः ॥ ३॥ पञ्चमी दशमी चैव पूर्णमासी तथैव च। एषा पूर्ण तिथिया देवर्जल्पिता हि सा ॥ ४ ॥ अश्विनी भरणी चैत्र कृत्तिका रोहिणी तथा। मृगा. च पुनर्वसुः पुष्याश्लेषा मधा तथा ॥५॥ पूर्वोत्तरे च फाल्गुन्यौ हस्तश्चित्राथ स्वातिका। विशाखानुराधाज्येष्ठा मूलं पूर्वोत्तराषाढे ॥ ६॥ श्रवणश्च धनिष्ठा च शतभिषा च पूर्विका । उत्तराभाद्रपदा च रेवती सप्तविंशतिः ॥ ७॥
इति नक्षत्र नामानि ॥ विष्कुम्भः प्रीतिरायुष्मान सौभाग्यः शोभनस्तथा । अतिगण्डः सुकर्मा च धृतिः शुलस्तथैव च ॥ ८॥ गण्डो वृद्धिर्बुवश्चव व्याघातो हर्षणस्तथा। वज्रसिद्धी व्यतीपातो वरीयान् परिधः शिवः ॥ ९ ॥ सिद्धः साध्य: शुभः शुक्लो ब्रह्मेन्द्रो वैधृतिः क्रमात् । साविंशतिसङ्ख्याका योगाश्चन्द्रार्कयोगतः ॥ १० ॥
इति योगनामानि | बवश्च बालवश्चैव कौलवस्तैतिलस्तथा ! गरो वणिजविष्ठी च सप्तकरणाभिधाः स्मृताः ॥ ११ ॥ चुचेचोला चाश्विनी स्याल् लिलूलेलो भरण्यपि । कृत्तिका स्यादईऊप रोहिण्यूवाविवु स्मृता ॥ १२ ॥ वेवोकाकी मगश्चा कूघाङाछा प्रकीर्तिता। केकोहाही पुनर्वसुईहेहोढा व पुष्यभम् ॥ १३ ॥ अश्लेषा तु डिडूडेडो मामीमूमे मघाह्वयम् । मोटाटीटू तु पूर्वाख्या मुफाटेटो पपि स्मृता ॥ १४ ॥