________________
(२८) हरेरष्टमः कृष्णावतारो नामाष्टाविंशं सूत्रम् ॥
-
-
--
विश्वकर्मोवाच
पुनर्जन्म करिष्यामि धर्मार्थे स्वपराजित । मथुरायां चापरं तु द्वापरान्ते कलौ युगे ॥१॥ जातोऽवतारो विष्णोश्च दानवानां वधार्थकः । कृष्णपक्षे भाद्रपदे ह्यष्टम्यां च तिथौ तथा ॥२॥ रोहिणी नाम नक्षत्रे ह्यर्धरात्रे तथागते । वसुदेवसुतः श्रीमान् वासुदेव इति श्रुतः ॥३॥ तस्य कर्माणि चाख्यास्ये शणु चैकानमानसः। पूतनां घातयिष्यामि दुष्यं वै बालघातकीम् ॥ ४॥ गोकुले च गतो देवो वर्तमान महाधनम् । गवार्थे चोद्धरिष्येऽहं गिरि गोवर्द्धनं तथा ॥५॥ प्रवत्तायां महावृष्टौ गिरिपृष्ठनिवासिनाम् ।। कालीयकं वशीकृत्य यमुनायां महार्णवे ॥६॥ समानीष्ठा? (हा)नि पध्मानि कंसस्यार्थे तु विग्रहे । मल्लयुद्धं करिष्यामि सह तैस्तु महोत्कटम् ॥ ७॥ मथुरायां वधिष्यामि कंसं च केशिनं तथा। चाणूरं च तथा बाहुं मुष्टिकं च महाबलम् ॥ ८॥ प्रलम्बं धेनुकं चैव घरिष्टं वृषरूपिणम् । कालनेमि हनिष्यामि त्रिषु लोकेषु विश्रुतम् ॥९॥ कुशस्थली गमिष्यामि तीर्थे चावन्तिकाश्रिते। नरकं च वधिष्यामि कुण्डलार्थे महासुरम् ॥ १०॥ शोणिताख्यां पुरीं गत्वा करिष्ये कदनं महत् ।। भुजच्छेदं करिष्यामि बाणस्य रणमूर्धनि ॥ ११ ॥ शंकरं योधयिष्यामि बाणस्यार्थे परं तप । शोणिताख्यां पुरीं गत्वा जरासन्धेन विग्रहः ॥ १२॥ जरासन्धो हतो भ्रात्रा शोणितस्थे जनार्दने । जरासन्धभयत्रस्तान् रक्षिष्यति च पार्थिवान् ॥ १३ ॥ जरासन्धसुतं बाला वृद्धा पृष्टाश्च यादवाः । नवकोटयः सङ्ख्यया दन्तिनां लक्षविंशतिः ॥१४॥ रथानां सार्धकोटिश्च तदर्धे च पदातयः। कोटयोष्टादश तथाऽने निगच्छन्ति यादवाः ॥ १५ ॥