________________
(१६) सत्वरजस्तमः षोडश सूत्रम् ॥
अपराजित उवाच
सत्त्वं रजस्तमः कीहक् कथं तेषां समुद्भवः । संसारस्य समस्तस्य जननी जगमालिनी ? ॥ १॥ समुद्भता कथं देव संसारसृष्टिमालिका ।
सत्त्वं रजस्तमश्चैवं कथयस्व प्रसादतः ॥ २ ॥ विश्वकर्मोवाच
उत्पत्तिर्जगतो हेतुर्निर्मिता किल विष्णुना। स्रष्ट्रा वै सर्वशिल्पानां शवशाादिधारिणा ॥३॥ तत्रोद्भूतं रजः सत्त्वं तमश्चापि तृतीयकम् । तदुद्भवा च सृष्टिस्तु जनसन्तानसन्ततिः ॥ ४॥ रजो ब्रह्मा तमो विष्णुः सत्त्वं चैव महेश्वरः । ततत्रिक समुत्पन्नं संसारसृष्टिकोद्भवम् ॥५॥ चतुरशीतिलक्षाणि जीवयोनिरनेकधा । तमसस्तामसी शक्तिस्तपस्तेजोविवर्द्धिनी ॥ ६॥ रजसो राजसी ख्याता रजो ज्ञाने ब्रह्मात्मजा । माया मोहश्च तत्कार्य वैष्णवी मोहशालिनी ॥ ७ ॥ सत्त्वाञ्च साविकी शक्तिः सत्वज्ञाने शिवात्मजा । संसारप्रीतिमुक्तानां मोक्षदा सत्त्वसात्त्विकी ॥ ८॥ तमः पिता रजो माता गुरुः सत्त्वं प्रतिष्ठितम् । एवं प्रवर्तते सृष्टिः संसारे मोहशालिनी ॥९॥ रजो रक्तं समाख्यातं तमः शुक्र प्रतिष्ठितम् । सत्त्वं पवन इत्युक्तं संसारे सृष्टिमालिका ॥ १०॥ रजः सूर्यः समाख्यातस्तमश्चैवं तु चन्द्रमाः। सत्वं पवनमित्याहुः संसारमोघमालिका ॥११॥ रजः पृथ्वी समाख्याता तमश्चाकाशसम्भवम् । सत्वं पवनमित्युक्तं वर्तते मोघमालिनी ॥ १२॥ रज आपस्तथा ख्याता तमस्तेजः समुद्भवम् । सत्त्वं मारुतमित्याहुखिभिः संसारसम्भवः ॥ १३ ॥ इच्छाशक्ती राजसी स्यात् तामसी तु क्रियात्मिका । साविकी झानशक्त्याख्या शम्भुसंसारसम्भवाः ॥ १४ ॥