________________
civ
झगद्वयं प्ररथे च सर्वतो भद्रवाण्डकम् । केशरी च समाख्यातः शहां भद्रकर्णोद्भवम् ॥ ८६ ॥ अनेनैव तु भागेन भने माक्षभूषितम् । मत्तात्ररणसंयुक्तमिल्लिकातोरणयुतम् ॥ ८७ ॥ तस्यो रधिका कार्या चित्रा गवाक्षभूषिता । संवरणाभिः सम्युक्ता घण्टाकूटसमन्विता ॥८८॥ तस्योचे उरस्त्रीणि सुरूपा लक्षणान्विता । प्रत्यमा यदि प्रत्यङग ऊरुश्च वामदक्षिणे ॥ ८९ ॥ तदरे मञ्जरी कार्या तवगैर्नेकै भूषिता । प्रासादे यादृशं छन्दो मण्डपे च तदेव हि ॥ ९ ॥ तदूर्ध्वं संवरणा च घण्टातिलकसभ्युता। गजसिंहसमाकीण नानाभरणभूषिता ॥ ९१ ॥ नवाशीतिः शताग्रे च विजये चाण्डकानि च । तिलकै विशतिभिश्च घण्टाकूट समन्विते ॥ ९२ ॥ ईद्दश कुरुते यस्तु प्रासादं जयकारकम् ।
विजयं सर्वकालेषु शिवपुर्थी स गच्छति ॥ ९३ ॥ 31 अप. cf:-(94 to 114) श्रुणु वत्स प्रवक्ष्यामि त्रैलोकस्य च लक्षणम् । of वि. वा.
चतुरश्रीकृते क्षेत्रे द्वात्रिंशत्पदभाजित ॥ ९४ ।। कर्णान्तो गर्भपर्यन्त विभागा इति निश्चयः । भद्रं तु रसभागैश्च युगभागश्च निगमः ॥ ९५॥ नन्दिका चन्द्रभागेन विस्तरे निर्गमेण च । प्रतिरथो वेदभाग निगमेण तथैव च ॥ ९६॥ कर्णिका इन्दुभागेन निर्गमे चेन्दुभागिका । कर्ण तु युगभागेश्च स्थापयेद् विदिशि दिशि ॥ ९ ॥ पीठोपरि च संस्थाप्य भद्रं गवाक्षभूषितम् । मत्तवारुणसम्युक्तमील्लिकावलौर्युतम् ॥ ९८ ॥ ईदृशं कारयेद्यस्य भद्रे प्रासादभूषणम् । तलमान समास्यातमूर्धमानं च कथ्यते ॥ ९९ ॥ केशरी सर्वतो भद्रो नन्दनश्च तृतीयकः । अनुक्रमेण संस्थाप्या कोणमध्ये व्यवस्थिताः॥ १० ॥ नन्दिका कणिकायां तु के शरिणं नियोजयेत् । तवगाण्डैश्च सम्युक्तमूर्वं च तिलकं भवेत् ॥ १.१॥ केशरी सक्तो भद्रो नन्दनश्च तृतीयकः । प्रतिरथे च संस्था या श्चतुर्दिक्षु व्यवस्थिताः ॥ १.२॥ भद्राय रथिका कार्या भद्रं गवाक्षभूषितम् । ऊर्वे संवरणा कार्या घण्टातिलकसम्युता ॥ १०३॥ प्रत्यङगा यवि प्रत्यङग ऊरुश्च वामदक्षिणे । तसर्थ मजरी कार्या पद्माकारा मुवर्तिता ॥ १०४ ॥ द्वात्रिंशत्पदमध्याच विंशतिपदभाजिते । एते भागाः समाख्याता रेखाविस्तरमादिशेत् ॥ १०६ ॥ रेखाविस्तरमानेन सपादेन तदुच्छ्यः । तवगाण्डैश्च सम्युक्त उद्गमोरुभिशकुलम् ॥ १०७ ॥