________________
शिल्परत्ने दुखाक्षरगर्भमण्डलयुता रूक्षस्वरा जर्जरा
दुःस्पर्शापदिशं निवेशितशिरोद्देशा विवर्ज्या शिला ॥ १०॥
५८
[पूर्वभागः
सिद्धाद्याकरसम्भवा वसुमतीमग्ना स्ववर्णोचिता
farer शस्त्रसहा गभीरनिनदा दिश्याहिताग्रा शिला । ग्राह्या बिम्बविधौ स्फुलिङ्गबहुला तस्याच्छिरोधोमुखा (?) यत्काष्ठाभिमुखी समुत्थितवती स्थाप्या च तद्दिङ्मुखीम् ॥
पुण्योद्यानक्षेत्र तीर्थहृदस्था वृक्षच्छायाशीतला श्लिष्टकाया ।
स्निग्धा घण्टानिःखनाप्याज्यगन्धा विस्तीर्ण स्याल्लिङ्गकार्ये प्रसिद्धा ॥ १२ ॥
श्वेता पङ्कजसन्निभा द्विजशिला तस्याः शशी देवता राजा रक्तशिला कुलस्थसदृशा शक्रस्तु तद्देवता । पीता वैश्यशिला तथैव हरिता तस्या भगो देवता कृष्णा शुद्रशिला च मुत्सदृशा तत्राश्विनौ देवता ॥ चतुर्णामपि वर्णानामेता मुख्याः स्वकाः शिलाः ।
अलाभे सर्ववर्णानामासामेकतमा भवेत् ॥ १४ ॥ गुर्वी धीरवा स्फुलिङ्गबहुला न्यग्रोधबोधिच्छद
प्रख्या बिम्ब (विधौ ) विशालबहुला ग्राह्या शिला पौरुषी । रम्भापत्रनिभा न चातिबहुला स्निग्धस्वना शीतला
स्त्रैणी पीठविधौ द्विलक्ष्मभिदुरा लैबी पदाब्जार्पणे ॥ १५ ॥ पूर्वोत्तरशिगेयुक्ता घण्टानादस्फुलिङ्गवत् । छेदे सा पुंशिला लिङ्गयोग्या वृत्ता तदायता ॥ १६ ॥