SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ शिल्परत्ने पूर्वभागः तिस्रो रेखाश्चतुर्दिक्षु बाह्यस्थाः सन्धयः स्मृताः । मर्माणि सूत्रसन्धानि चोपमर्म पदस्थितम् ॥ १९ ॥ मूर्ध्नि वक्रे च नाभौ च महामर्म स्तने मृतिः । अनुवंशद्वयस्यापि सन्धिाङ्गलमुच्यते ॥ २० ॥ गवां नाशः शिरोवेधे वंशवेधे मृति वदेत् । प्रवासः सन्धिवेधे स्यादनुवंशे भयं भवेत् ॥ २१ ॥ पदस्य गृहकृत्यंशं सूत्रं स्याद् वेदपष्टिके । एकाशीतिपदेऽकाशं + + वसंशकके पदे(?) ।। २२३ ॥ प्रागुदक्सूत्रमानेन नीत्वाधिं भुजवंशयोः । अन्तरा स्थापयेद् गर्भ सस्वचिह्न प्रयत्नतः ॥ २३३ ।। इति शिल्परले वास्तुमर्मविधानं नाम योदशोऽध्यायः । अथ चतुर्दशोऽध्यायः । अथ मासादादिकरण द्रव्यविधिः । शिलेष्टकासुधादारुमृत्स्नामृल्लोप्टलोहकाः । एते विमानकरणे दिव्यत्वेन निरूपिताः ॥१॥ - शिलालक्षणम्। चण्डालपुल्कसव्याधपुलिन्दायैर्विदृषिताः । वल्मीकाहिश्मशानाढ्या निन्द्या भूरपि तच्छिला ॥ २ ॥ भूपरिग्रहणे पूर्व निन्दिता याश्च भूमयः । तद्गताश्च शिलाः सम्यवर्जित मुहकर्माण ॥ ३ ॥
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy