________________
शिल्परत्ने
पूर्वभागः अथ चतुरश्रीकरणम् । प्रागग्रं सूत्रमुर्व्यामृजुतरमभिकल्प्यास्य मूलाग्रगाभ्यां सूत्राभ्यां मत्स्ययुग्मं यमशशिहरितोः कल्पयित्वात्र सूत्रम् । कृत्वा दिक्ष्वङ्कयित्वा सममिह निहितैः सूत्रकैः कोणमत्स्यान् कृत्वास्फाल्यैषु सूत्रं रचयतु चतुरश्रं पुरः क्षेत्रक्लप्तौ ।। २२३॥
___ इति शिल्परने दिक्परिच्छेदो नाम - एकादशोऽध्यायः ।
अथ द्वादशोऽध्यायः।
___अथ गर्भन्यासः। ग्रामादीनां च सर्वेषां गर्भन्यासोऽहति क्रमात् । स्थानीये च द्रोणमुखे खवटे प्रतिनागरे ॥१॥ ग्रामे च निगमे खेटे महेन्द्रे च गृहक्षते । विष्णोः स्थाने शिवस्थाने स्कन्दस्थानेऽथवा पुनः ॥ २॥ स्थापयेद् ग्रामरक्षार्थ सर्वकामाभिवृद्धये । अनुक्तानां तु सर्वेषामजभागादिषु न्यसेत् ॥ ३ ॥ वापीकूपतटाकादौ तथा वा सेतुबन्धने । गर्भ तदुक्तभागे वा पूर्वायां दिशि वा तथा ॥ ४ ॥ पुरुषाञ्जलिमात्रे तु श्वभ्रे गर्भ निधापयेत् ।। ब्रह्मादीनां च देवानां देवीनां द्वारदक्षिणे ॥ ५॥ स्तम्भमूलेऽथवा योगमूले गर्भ निधापयेत् । होमस्तम्भे प्रतिस्तम्भे पादुकोचे प्रतेरधः ॥ ६॥ . ततोन्नतं च निम्नं च गर्भ सर्वाविनाशकृत् । पुरुषाञ्जलिमात्रे तत् खाते वाखिलधामसु ॥७॥