________________
बलिपीठलक्षणम् ] त्रिचत्वारिंशोऽध्यायः ।
२२९ पद्मतारयुगांशं स्यात कर्णिकायास्तु विस्तृतिः । वेशनिष्क्रमणादीनि पट्टिकाकन्धरादिषु ॥ २२ ॥ आधङ्गोक्तेन मार्गेण कुर्यात् तद्वलिविष्टरे । पीठाकारं युगाणं वा चाष्टाध वा कलाश्रकम् ॥ २३ ॥ वृत्ताकारं तु वा कुर्याद् द्रव्यभेदोऽत्र कथ्यते । । भवन्ति लोहपापाणसुधा वा मृत्तिकाथवा ॥ २४ ॥
इष्टका वा साधनानि बलिपीठविधाविति । पक्षान्तरम् -
अथोच्चे षोडशांशे तु कुर्याद् भागेन पादुकम् ॥ २५ ॥ वेदैर्जगतिकास्तहत्कुमुदं पट्टमंशतः । अष्टांशोनं तु वा कुर्यात तत्त्यूशैः कर्णिकाततिम् ॥ २६ ॥ पीठाकारचतुर्थाशं पद्मतुङ्गमुदाहृतम् । सभद्रं वा विभद्रं वा सोपपीठमथापि वा ॥ २७ ॥ अलङ्कारैर्विमानोक्तैर्युक्तं वा बलिविष्टरम् । षोडशांशीकृते तुङ्गे पादुकं त्वेकभागतः ॥ २८ ॥ वेदैर्जगतिकास्तत्र कुमुदं तु त्रिभागतः । पट्टमंशेन रामांशैर्गलं कम्पं तु भागतः ॥ २९ ॥ कपोतोच्चं द्विभागेन पट्टमंशेन कारयेत् । पीठव्यासत्रिपादं वाप्य वाब्जस्य विस्तृतम् ॥ ३० ॥ तविभागं कर्णिकायास्तुङ्गं तद्विस्तृतार्धतः । अथान्यथा---
उत्सेधे सप्तभागे तु पञ्चभागस्तु विस्तृतम् ॥ ३१ ॥