________________
परिवारविधानम्] द्विचत्वारिंशोऽध्यायः ।
२२.३. यदिङ्मुखो भवेद् देवस्तदने वाहनध्वजम् । . . इन्द्रादारभ्य लोकेशान् न्यस्येद् देवप्रदक्षिणात् ॥ ४१ ॥ सर्वत्र कल्पयेद् देवे प्रनालमपि चोत्तरे । अग्निगोपुरयोर्मध्ये धनधान्यगृहं भवेत् ॥ ४२ ॥ याम्ये मज्जनशाला स्यात् तत्रस्थं पुष्पमण्डपम् । नैर्ऋतं स्थानमाश्रित्य कुर्यादायुधमण्डपम् ॥ ४३ ॥ वारुणे वायुदेशे वा शयनस्थानमिष्यते । सौम्ये देशे प्रकर्तव्यं धर्मश्रवणमण्डपम् ॥ ४४ ॥ ईशे वापिं च कूपं च कुर्यात् तत्रापवत्सके । ईशगोपुरयोर्मध्ये वाद्यस्थानं प्रकीर्तितम् ॥ ४५ ॥ आरादशेि विमानस्य कुर्यान्निर्माल्यधारिणम् । . कूप चारामकं चैव दीर्घिका च सुरालये ॥४६॥ . कुत्रापि न निषिध्यन्ते तस्मात् सर्वत्र सन्तु ते । परिचारकदासीनां स्थानं स्यात् परितो बहिः ॥ ४७ ॥ गुरोर्मठं भवेद् याम्ये पूर्वस्मिन् वा समाचरेत् । वैनतेयं मुखे कुर्याद् वैष्णवेऽनौ गजाननम् ॥ ४८ ॥ संमुखे स्थापयेच्चक्र गरुडं तत्प्रदक्षिणे । .. शङ्ख वामे बहिः कुर्यात् सूर्याचन्द्रमसौ पुनः ॥ ४९ ॥ गोपुरद्वारपार्श्वस्थौ पूर्वभागे विशेषतः। . . . . वह्नौ वा पावने शेषः पश्चान्द्रागेऽपि संमुखः ॥ ५० ॥ आदित्यश्च भृगुश्चैवाप्यश्विनी च सरस्वती। ... पद्मा च पृथिवी चैव मुनयः सचिवस्तथा . ।.५१: ॥