________________
२१८
शिल्परने । ....[पूर्वभागः: शिष्टेन तु शिखातुङ्गमित्येकतलगोपुरे । एवं तु हितलादीनां तलाधिक्यविभागतः ॥ १७ ॥ आद्वादशतलादूह्यं सर्वमत्र विचक्षणैः । गोपुरव्यासपञ्चांशे गर्भागारं त्रिभागतः ॥ ४८ ॥ भागाभ्यां भित्तिविष्कम्भं विदध्यादेकभूमिके । द्वितले गोपुरे व्यासे गर्भ शैलाब्धिभागतः ॥ ४९ ॥ त्रिभागैभित्तिविष्कम्भं व्यासे रन्ध्रविभाजिते । अंशेन कूटविस्तारं कोष्ठमंशैस्त्रिभिस्तथा ॥ ५० ॥ कूटकोष्ठकयोमध्ये पञ्चांशैः पञ्जरादिकम् । कूटकोष्ठादिनिष्क्रान्ताद्यखिलं पूर्वमुक्तवत् ॥ ५१ ॥ व्यासे नवांशे त्रितले कूटकोष्ठादि कल्पयेत् । । व्यासेन दशधा कृत्वा करोत्वब्धितले पुनः ॥ ५२ ।। रुद्रांशैः शर(भौ?भू)मौ स्यात् सूर्याशैः षट्तले तथा । विद्यांशैरद्रिभूमौ तु करोतु निखिलं क्रमात् ॥ ५३॥ गोपुराणा तु सर्वेषां कुड्यं गर्भमलिन्दकम् । कूटं शालां पञ्जरं च नासिकां हस्तिपृष्ठकम् ॥ ५४ ॥ करोतु मूलहयानुसारात् कुम्भलतामपि । मसूरकस्तम्भवेदिजालकैस्तोरणादिभिः ॥ ५५ ॥ यथायुक्ति यथाशोभं युक्तमेव करोत्वतः। अधस्तलं द्वारतारे वेदैवेंषुभिरंशिते ॥ ५६ ॥ एकाशरहितं वोर्ध्वतलेषु द्वारविस्तृतम् । सोपानं पूर्ववद् + + गर्भागारेष्वियं भिदा ॥ ५७ ॥