________________
०
.
पम्बमाकारलक्षणम् ] चत्वारिंशोऽध्यायः । भित्तेरुपरिपादं वा पादोपरि न भित्तिकम् ।। सभामण्डपकच्छत्राकारा वाप्य॒जुभित्तिका ॥ ५९॥ कूटकोष्ठादियुक्ता वा मालिकापतिरिष्यते । षडङ्गुलं समारभ्य व्योमाङ्गुलविवर्धनात् ॥ ६० ॥ विंशन्मात्रावधिर्यावत तावत् पादस्य विस्तृतिः । पादबन्धमधिष्ठानं कारयेत् पूर्वमुक्तवत् ॥ ६१ ॥ द्वितीयं च तृतीयं च चतुर्थ सालमेव च । गृहीत्वान्यौ विवज्यते यत्र तत्तु त्रितालकम् ॥ ६२ ।। द्वितीयं वा तृतीयं वा गृहीत्वान्यास्तु वर्जिताः । एकसालान्वितं हयं ह्येवमेव प्रकल्पयेत् ॥ ६३ ॥ बीजात् पादं तु वार्ध वा त्रिपादं तत्समं तु वा । तस्यानुसालकं युक्तं हिसालं सम्प्रकीर्तितम् ॥ ६४ ॥ पृष्ठे सपार्श्वद्वितये स्वमूलयोन्यन्वितं मण्डपमाकलय्य । तुर्यश्रमातत्य ततोऽन्तराले तन्वीत संयोज्य मिथोऽन्तहाराम्॥ कृत्वा वंशं मुखायत्युपचितनिजदण्डस्थितं पार्श्वहारा
भारासक्ताग्रमूलं प्रथितगुणविभागादिकप्त्या विभज्य । कृत्वा तद्भागतस्तद्विततिमुचितयोन्याढ्यमन्योत्तराणि
न्यस्यारूढोत्तरादीन्यपि रचयतु तद्युक्तितोऽग्रे सभायाम्॥ स्वाभीष्टे सममार्धिते गृहपरीणाहे स्ववंशप्रथा- ..
इन्होने चतुरादियुग्मपरिसंख्याभिर्विभक्ते समम् । एकांशेन ततिं तनोतु परिशिष्टैराततिं चांशकै
रूनाशं परितः प्रपूरयतु चैवं पादसूत्रे क्रमः ॥ ६७ ॥