________________
२००
शिल्परने
[पूर्वभागः पद्मकोशं वर्तुलं चेन्मण्डपं सर्वयोग्यकम् । चतुरश्रं समं कुर्यात कर्णबन्धावलग्नकैः ॥ ४४ ॥ तदाच्छेदलुपाभिर्यद् युक्तं श्रीकरनामकम् । तदेवायतवृत्तं चेद् विष्णुकान्ताभिधानकम् ॥ ४५ ॥ पादैादशभिर्युक्तं कर्णबन्धावलग्नकैः ।। बालकूटैश्चित्रपट्टया व्यालविद्याधरादिभिः॥४६॥ नानालङ्कारकैर्युक्तं नाम्ना ललितभद्रकम् । सर्वाङ्गपादसंयुक्तं सर्वालङ्कारभूषितम् ॥ ४७ ॥ विशालं नाम तत् प्रोक्तं मण्डपं वा प्रपाथवा । मध्ये रङ्गं विधातव्यं मण्डपेषु च केषुचित ॥ ४८ ॥ चतुर्थांशेन पादोच्चात् तस्य वेद्युन्नतं भवेत्। चतुःस्तम्भं वसुस्तम्भं षोडशस्तम्भमेव वा ॥ ४९ ॥ सर्वावयवसंयुक्तं सुन्दरं रङ्गमाचरेत् । देवप्रतिष्ठास्थानं तु विमाने रङ्गसंज्ञितम् ॥ ५ ॥
तत्रापि चैवं कर्तव्यं सकुड्यं वा सजालकम् । अथाधिवासमण्डपः--- . प्रासादस्याग्रतो वैशे सौम्ये वा याम्यगोचरे ॥ ५१ ॥ नवाष्टसप्तषट्पञ्चहस्तं वा मण्डपं ततः ।। तदायामसमं तारं समतुर्यश्रमेव हि ॥ ५२ ॥ भारद्वयसमायुक्तं षोडशस्तम्भसंयुतम् । चतुरिसमायुक्तं चतुस्तोरणभूषितम् ॥ ५३ ॥