________________
- शान्तिकादिनियमः] सप्तत्रिंशोऽध्यायः । अथाष्टतलम् -- + + षष्टिकृते तुङ्गे सार्धाग्न्यंशं धरातलम् । सप्तांशं चरणायाम मञ्चं सार्धत्रिभागिकम् ॥ ९७ ।। पादं सार्धषडंशं तु यधाशं मञ्चमानकम् । पादं सपादपञ्चांशं मञ्चं सार्धद्विभागिकम् !! ९८ ॥ भूतांशं चरणायाम मञ्चं साधिविभागिकम् । पादोनपञ्चकं पादं मञ्चं पादोननेत्रकम् ॥ ९९ ॥ सार्धवेदांशकं पादं व्योमांशं प्रस्तरोदयम् । शिवांशं वेदिकातुङ्गं पादोनद्वयंशकं गलम् ॥ १० ॥ शिखरं सार्धवेदांशं तच्छेषं स्तूपिकोदयम् । कुर्यादष्टतले गेहे शान्तिकाद्यविशेषतः ।। १०१ ॥ शिवच्छन्दानि नामानि बहून्यत्र भवन्ति हि। अथ नवतलम् -
अष्टाशीत्यंशिते तुङ्गे पादोनचतुरंशकम् ॥ १०२ ॥ जङ्घोच्चं तद्युगं पादं प्रस्तरं सार्धवह्निकम् । . सप्तांशं चरणोत्सेधं मञ्चोच्चं साधिपावकम् ॥ १०३।। पादं सार्धरसांशं तु गुणांशं मञ्चमानकम् । षड्भागं पादतुझं तु मञ्चं पादोनपावकम् ॥ १०४ ॥ पादोच्चं सार्धभूतांशं मनं साद्विभागिकम् । भूतांशं चरणोत्सेधं मञ्चं साद्विभागिकम् ॥ १.५ ॥ साङ्घयंशं प्रस्तरोत्सेधं शश्यंशं वेदिकोदयम् । .. कर्णोच्चं सार्धभागं तु सार्धवेदांशकं शिरः ॥ १०६ ॥