________________
. [पूर्वमागः
शिल्परत्ने चतुर्दशयवं प्रोक्तं प्रायेण वलयं बुधैः। व्यङ्गुलं वर्धमात्रं वा यङ्गुलं सार्धमात्रकम् ॥ २८ ॥ तुल्यमुत्तरबाहल्यैश्चूलिकाया विशालकम् । तदर्ध तहनं कुर्यात् तत्रिभागद्वयं तु वा ॥ २९ ॥ घनमानत्रिभागैकं तत्कीलानां धनं विदुः । तचतुर्गुणमेव स्या(द् वाव्या) समग्रे ततः क्रमात् ॥ अष्टांशहीनमूले तयासं युक्त्या तदायतम् । उत्तरोपरि विन्यस्येचूलिकामथवा पुनः ॥ ३१ ॥ तत्पादं तत्र विन्यस्य युक्त्या तस्यां च चूलिकाम् । चूलिकावलयादीनां धनमानप्रमाणतः ॥ ३२ ॥ तुर्यश्रं कल्पयेत् क्षेत्रं पूर्ववत् फलकादिषु । पूर्ववत् कर्णसूत्राणि लुपापतिवशाल्लिखेत् ॥ ३३ ॥ तत्तत्कर्णगतं मानमायामं सुषिरादिषु।। तत्तल्लुपागतं कुर्याचूलिकावलयादिषु ॥ ३४ ॥ आयतं सुषिरस्यास्य नोर्वाधस्तिर्यगेव हि । ऊर्ध्वाधस्सुषिरायाम वलयादिघनैः समम् ॥ ३६॥ लुपानां प्रकृतीमागे ह्यन्तर्गमनमीरितम् । तत्तद्गमनमानेन चूलीवलययोस्तथा ॥ ३५॥ कोटिभागे तु गमनं लम्बसूत्राद् बहिर्गतम्। आयताश्रं तु सुषिरं विकृतीनां ततो भवेत् ॥ ३७॥ तुर्यश्रं सुषिरं कुर्याद् वलयस्य प्रमाणतः । प्रकृतीनां लुपानां वै पुनस्तत्र समाचरेत् ॥ ३८॥