SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ नाललक्षणम् ] विंशोऽध्यायः । युग्मं वायुग्मसंख्यं वा सिंहव्यालादिभूषितम् । अथ कूटकोष्ठादिष्वधिष्ठाननियमः । १११ प्रासादे प्रतिबन्धश्चेत् कूटकोष्ठादिकेष्वपि ॥ १२७ ॥ प्रतिबन्ध एव कर्तव्यः पादबन्धे तथैव च । स्वजातिसङ्करं नैव दोषायान्यदनर्थकृत् ॥ १२८ ॥ द्वारार्थ वा स्थलार्थ वा जलमार्गार्थमेव वा । जन्मादिपञ्चवर्गेषु तत्तदङ्गावसानके ॥ १२९ ॥ छेदनं नैव दोषाय पादबन्धतलेऽखिले । प्रतेश्छेदं न कर्तव्यं प्रतिबन्धकुले (?) कदाचन ॥ १३० ॥ जन्मच्छेदं न कर्तव्यं यत्र कुत्रापि सर्वतः । विपदामास्पदं ह्येतत् तस्मात् तन्नैव कारयेत् ॥ १३१ ॥ इति शिल्परत्ने अधिष्ठानलक्षणं नाम एकोनविंशोऽध्यायः । अथ विंशोऽध्यायः । अथ नाललक्षणम् । प्रत्यन्ते वा गलान्ते रचयतु तदुदङ्मध्यसूत्रेऽम्बुमार्ग सोमेशानान्तरोद्यइसुनवदशभागादिकं वा व्यतीत्य | मासूरोत्सेधमात्रं चरणविरहितं वार्घवृद्धं प्रणालं निर्यात बाह्यतोऽन्तर्विनिहितमधिकुड्यं तदर्धीशमात्रम् ॥ १॥ स्वायामाग्न्यंशकादिप्रविततनिजमूलां ++ शादिविस्ती र्णा विस्तारतुल्यं त्रिपददलघनं त्र्यंशक्लृप्ताम्बुमार्गम् |
SR No.008431
Book TitleShilparatna Part 1
Original Sutra AuthorN/A
AuthorShreekumar K Sabhatsav Shastri
PublisherShreekumar K Sabhatsav Shastri
Publication Year1922
Total Pages324
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy