SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः ॥ अथ सटीकः शक्तिवादः || श्रीमते हयग्रीवाय नमः ॥ संकेतो लक्षणा चार्थे पदवृत्तिः । अथ ॥ शक्तिवादादर्शः ॥ ॥ भगवते श्रीहयग्रीवाय नमः ॥ आचं विद्यानिदानं विधिविधवरैर्वन्द्यमानापि धाम्नां धामैन्दवानां दनुजमुजरुजां जन्मनां छम जिह्नभू । प्रज्ञालो कार्कमतिप्रतिकृति ममतिध्वान्तदन्त्येणशकं क्रं भक्ताच हरिमितुरगग्रीवमुग्रं प्रपद्ये ॥ नवा श्रीमद्वेयग्रीवं व्याख्या विघ्नविनाशनम् । स्मृत्वा श्रीमत्पदाम्भोजं श्रीगङ्गाधरशास्त्रिणाम् || करोति बालबोधार्थं मूलार्थप्रतिपादिकाम् । सुटीको शक्तिवादस्य ह्याऽऽदर्शाख्यां सुदर्शनः || अथ सर्वेषां जनानां श्रुतैरपि सर्वैः पदैः शाब्दबोधो न जायते किंतु कैश्विदेवेति शाब्दबोधं प्रति वृत्तिप्रयोज्यपदार्थोपस्थितेरन्वयव्यतिरेकाभ्यां कारणत्वमवधार्यते तत्र का नाम वृत्ति रिति जिज्ञासायां श्रीगदाधरभट्टाचार्यो वृत्तिपदार्थनिरूपणमारभते - संकेत इति । "अर्थे” इति सप्तम्यर्थों निरूपितत्वं पदस्य वृत्तिः पदवृत्तिः षष्ठ्यर्थो निष्ठत्वं तथा च- अर्थनिरूपिता पदनिष्ठा या वृत्तिः सा संकेतो लक्षणा चेत्यर्थः । तत्र घटादिनिरूपिता वटादिपदनिष्ठा वृत्तिः संकेतरूपा, तीरादिनिरूपिता गंगादिपदनिष्टा या वृत्तिः सा लक्षणारूपेति विवेक: । 'शक्तिलक्षणा चार्थे पदवृत्ति:' इत्युक्ते शक्तेरीश्वरसंकेतरूपत्वेन पित्रादिकृतानामाधुनिक संकेतानां संग्रहो न स्यादिति दुभयसंग्रहार्थम् श्रतः इत्युक्तम् । वृत्तिपदस्य चात्र वृत्तिपदव्यवहार्य एवार्थः, अन्यथाऽर्थनिरूपितत्वमेव वृत्तित्वमिति वृत्तिपदार्थज्ञानार्थमर्थपदार्थज्ञानापेक्षा अर्थत्वं च वृत्त्या पदप्रतिपाद्यत्वमित्यर्थ पदार्थज्ञानार्थं वृत्तिपदार्थ
SR No.008430
Book TitleShaktivadadarsha
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherKhemraj Shrikrushnadas Shreshthi Mumbai
Publication Year
Total Pages216
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy