________________
( १९६ )
सादर्श:
[ विशेषकाण्डे -
क्तिविषयको पस्थितिद्वयस्य निवेशनीयतया प्रतिबन्धकतावच्छेदकशरीर गौरवाच जात्याकृतिविशिष्टव्यक्तिशक्तिपक्ष एव साधीयान् ।
माभाकरास्तु जातिशक्तिज्ञानादेव जातिप्रकारेण व्यक्तेः स्मरणं शाब्दबोधश्व. न तु निर्विकल्पकरूपं जातिस्मरणम् - निर्विकल्प कानभ्युपगमात् । व्यक्तिसंबन्धज्ञानविरहेण तदंशानुद्रोधादू व्यक्तिस्मरणासंभव इति तु नाशङ्कनीयम् - व्यक्तिमंविषयीकृत्य स्वरूपतो गोत्वादिज्ञानासंभवेन गोत्वायुद्बोधकस्यैव व्यक्त्युद्बोधकत्वाद् उद्घोधकस्य फलवलकल्प्यत्वात् ।
स्यादिति प्रतिबन्धकतावच्छेदकशरीरगौरवम्, तर्कमते तु जातिविशिष्टव्यक्तौ शक्तिस्वीकाराजातिविशिष्टव्यक्तिविषयको पस्थितेरेकस्या एव प्रतिबन्धकत्वापत्त्या लाघवमिति जात्याकृतिविशिष्टव्यक्तावेव शक्तिरुचितेत्यर्थः । यद्यत्युक्तमीमांसकमते गोत्वविशिष्टव्यक्तौ शक्तिर्नास्ति तथापि लक्षणयोपस्थितव्यक्तौ शक्त्योपस्थितजातेरन्वयो भवत्येवेतिरीत्या गोत्वादिविशिष्टव्यक्तिविषयकशाब्दबोधसामग्र्यां प्रतिबन्धकत्वमिष्टमस्तीत्यभिप्रायेण "गोत्वादिविशिष्टव्यक्तिशाब्दधी प्रतिबन्धकतायाम्" इत्युक्तम् ।
मानविषयकानुमितिं प्रति शाब्दसामय्याः प्रतिबन्धकत्वमस्ति तत्रानुमितिसामग्र्या व्याप्तिज्ञानपरामर्शादिवटितत्वेन गुरुत्वाच्छान्दसामग्रयां चैतादृशगुरुत्वस्याभावात् सूचीकटाहन्यायेन प्रथमं विषयसाम्ये शाब्दबोध एव जायते, विषयभेदे तु शक्तिज्ञानादिरूपा शाब्दसामग्री कोशादिदर्शनेन कालान्तरेपि संभवति पक्षदर्शनादिरूपाऽनुमितिसामग्री तु कालान्तरे न संभवतीति प्रथममनुमितिरेव जायते । विभिन्नविषयकप्रत्यक्षं प्रति शाब्दसामय्याः प्रतिबन्धकत्वमस्ति तत्र पदज्ञानपदार्थोपस्थित्यादिरूपशाब्दसामग्र्या उपस्थितत्वात् प्रथमं शाब्दबोध एव जायते, विष
साम्ये तु विषयेन्द्रियसंयोगादिरूप प्रत्यक्ष सामय्याः कालान्तरेऽसंभवाच्छान्दसामग्रीभूतशक्तिज्ञावोपस्थित्यादेश्व कालान्तरेपि संभवात् प्रथमं प्रत्यक्षमेव जायते इति तत्त्वम् ।
संप्रति प्रभाकरमतमनुवदति - प्राभाकरा इत्यादिना । प्रभाकरमते व्यक्तौ शक्तिमहे आनन्त्यव्यभिचारदोपौ जातिव्यक्त्युभयोः शक्तिग्रहे गौरवमिति शक्तिग्रहः केवलजातायेन तादृराजातिशक्तिज्ञानात् स्मरणशाब्दबोधौ तु जातिप्रकारकव्यक्तिविशेष्यकायैव भवत इत्यर्थः । पदादुक्तनिविकल्पक जातिस्मरणं पराचष्टे - न त्विति । ननु पदस्य जातिमात्रे शक्तिग्रहे व्यक्तया सह पदस्य वाच्यवाच्यकभावरूपशक्तिसंबन्धस्य ग्रह एव नास्तीति तदंशानुद्बोधात् = व्यक्तेरनुद्वोवाद् व्यक्तिस्मरणं कथं स्यादित्याशङ्कयाह - व्यक्तिसंबन्धेति । अनाशङ्कनीयत्वे हेतुमाह- व्यक्तिमिति, व्यक्ति विना स्वरूपतो गोत्वादेर्ज्ञानं न भवतीत्यर्थापत्त्या जात्युक्रोधकस्यैव व्यक्तयुद्बोधकत्वं कल्प्यतेउद्बोधकस्य फलबलकल्प्यत्वात् फलं चात्र स्मरणं तच्च जातिव्यक्तयुभयविषयकमेव भवति व्यक्त्युद्बोधकस्यान्यस्योपलम्भाभावाजात्युद्बोधकस्यैव व्यक्तयुद्बोधकत्वं कल्प्यते इत्यर्थः ।