________________
सादर्श:
[ विशेषकाण्डे -
तद्धर्मावच्छिन्नविषयताशालिबोधे पदांशे तद्धर्मावच्छिन्नविषयताघटितोक्तोभयसंबन्धावच्छिन्नाया बोधनिष्ठविशेष्यतानिरूपित संकेतीयप्रकारताया वाचकतारूपायाः प्रकारतया संसर्गतया वा ज्ञानस्य हेतुत्वात्, अन्यधर्मावच्छिन्नं बुद्धिस्थी - कृत्य प्रयुक्ते पदेऽन्यधर्मावच्छिन्नविषयताघटितोभयसंबन्धावच्छिन्नसंकेतयप्रकारताया असत्त्वेन तत्र तदवगाहिज्ञानस्य भ्रमत्वनियमात् ॥
( ११० )
विज्ञेयम् । संसर्गश्च किंचिन्निष्ठप्रकारता निरूपितो भवतीत्युक्तम्- प्रकारतानिरूपिततथाविधसंसर्गेति । भत इति - यत उक्ततत्तदादिपदवाच्यतारूपा विपयता कालान्तरीणपुरुषान्तरीयबुद्धिविषतावच्छेदकावच्छिन्ने वस्तुतो न भवत्यतस्तत्रैतत्तदादिपदवाच्यतारूपविषयतावगाहि ज्ञानं भ्रम एवेति तादृशभ्रमं विनैतत्तदादिपदेन तदवच्छिन्नयोवः = कालान्तरीणपुरुषान्तरीय बुद्धिविपयतावच्छेदकावच्छिन्न विषयक बोधो न भवतीत्यर्थः ।
मच्छति तद्धर्मावच्छिन्नविषयताशालिबोधे तद्धर्मावच्छिन्ना : या विषयता तादृशवियता कशाब्दबोधं प्रति तद्धर्मावच्छिन्नविषयताघटितो य उक्तोभयसंबन्धस्तादृशसंबन्धावच्छिन्नाया बोधनिष्ठ विशेष्यता निरूपित संकेतीयप्रकारताया वाचकतारूपायाः पदांश - तदादिपदे यत् प्रकातया वा संसर्गतया वा ज्ञानं तस्य हेतुत्वं स्वीक्रियते एतत्तदादिपदनिष्ठाया वाचकतारूपप्रकारतायास्तदन्यतदादिपदे चासत्त्वेन तत्र = अन्यधर्मावच्छिन्नं बुद्धिस्थीकृत्य प्रयुक्ते तदादिपदे ( तदन्यतदादिपदे ) तदवगाहिज्ञानस्य = अन्यधर्मावच्छिन्नविषयताघटितोभयसंबन्धावच्छिन्नसंकेतीयप्रकारावगाहिज्ञानस्यं ( एतत्तदादिपद निष्टप्रकारतावगाहिज्ञानस्य ) भ्रमत्यं नियमेन भवतीति तादृशभ्रमात्मकज्ञानेनैवाऽन्यधर्मावच्छिन्नं बुद्धिस्थीकृत्य प्रयुक्तेन पदेनाsन्यधर्मावच्छि -नविषयको बोधः संभवति न तु तादृशवाचकतारूपप्रकारतायाः प्रकारतया संसर्गतया वा यथार्थज्ञानेन तथा च प्रकृतघटादिकं बुद्धिस्थीकृत्य प्रयुक्तेनैतत्तदादिपदेन कालान्तरीणपुरुषान्तरीयबुद्धिविषयतावच्छेदकावच्छिन्नघटादेर्न यथार्थबोध: संभवतीति न तस्यैतत्तदादिपदवाच्यतापत्तिर्न वा एतत्तदादिपदस्य तद्वाचकवापत्तिरितिसारः । अन्यधर्मावच्छिन्नेति पाठद्वयस्थाने अन्यतद्धर्मावतिपाठो युक्तः 1 प्रकारतयेति- ' उक्ता या बोधनिष्ठा विशेष्यता, तन्निरूपितप्रकारतावत् तदादिपदम् ' इत्यत्र तादृशवाचकतारूपप्रकारतायाः प्रकारतया ज्ञानं भवति 'उक्तबोधनिष्ठ विशेष्यता निरूपितप्रकारतासंबन्धेन घटत्वादिधर्मविशिष्टवत तदादिपदम् ' इत्यत्र च तादृशप्रकारतायाः संसर्गतया ज्ञानं जायते इत्युक्तम्- " प्रकारतया संसर्गतया वा " इति । अवशिष्टं च स्वयमेव विवेचनीयम् ॥
॥ इति तत्पदम् ||