________________
70
यतो हि यद्भिन्नं भवति तत्ततो भेदेनानुभूयते यथा घटः पदात् । न च सत्ता तेभ्यो भेदेनानुभूयते इति तदात्मिकैवेत्यत आह द्रव्येति । द्रव्यादयोऽननुगताः । सप्ता चानुगता । तथा च अनुगतत्वानुगतत्वलक्षणविरुद्धधर्माध्यासेन तेभ्यो भेदस्य सिद्धत्वात् । यत्तु तेभ्योऽन्यत्र नोपलभ्यते तदयुत सिद्धबलात् । घटपटयोस्तु युतसिद्धिः । न च व्यक्तिस्वरूपमेव मत्ता व्यक्तीनामननुगमात् । स्वरूपत्वं यद्यनुगतं तदा सैव सत्ता | अननुगतैरपि स्वरूपैरनुगतव्यवहारश्चेत्तदा गोरखादिभिरपि गतम् ॥ ” Upaskara, ibid. “गुणकर्मसु च भावान्न कर्म न गुणः " V. S. 1. 1. 9. न हि कर्म कर्मसु वर्तते न वा गुणो गुणेषु न वा द्रव्यं गुणं कर्मण वा । सत्ता तु गुगे कर्मणि व वर्तते तेन द्रव्यगुणकर्मवैवम्यतेभ्यो भिन्नेव सत्ता Upaskara, ihid. सामान्यविशेषाभावेन च ॥ " V.S.Iii. 10. " यदि सत्ता द्रव्यं गुणः कर्म स्थात तदा सामान्यविशेषवती स्यात् । न च सत्तायां सामान्यविशेषा द्रव्यत्वादय उपलभ्यन्ते । न हि भवति सत्ता द्रव्यं गुणः कर्म वेति केषांचिदनुभवः ।
66
6
""
Upaskara, ibid.
सामान्यं द्विविधं परमपरं च अनुवृत्तिप्रत्ययकारणम् । तत्र परं सत्ता महाविषयत्वात् । सा चानुवृत्तेरेव हेतुत्वात सामान्यमेव । द्रव्यत्वाद्यपर मल्पविषयत्वात् तच्च व्यावृत्तेरपि हेतुत्वात् सामान्यं सद्विशेषाख्यामपि लभते । " P. Bhāsya.
68
"
"( सामान्यं द्विविधं परमपरं च । स्वविषय सर्वगतमभिन्नात्मकमनेकवृति एकद्विबहुध्वात्मस्वरूपानुगमप्रत्ययकारि स्वरूपाभेदेनाधारेषु प्रबन्धेन वर्तमानमनुवृत्तिप्रत्यय कारणम् ।.......। तत्र सत्तासामान्यं परमनुवृत्तिप्रत्ययकारणमेव । यथा परस्परविशिष्टेषु चर्मवस्त्रकम्बलादिष्वेकरमा श्रीलद्रव्याभिसंबन्धात् नीलं नीलमिति प्रत्ययानुवृत्तिः तथा परस्परविशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टा सत्सदिति प्रत्ययानुवृत्तिः सा चार्थान्तराद्भवितुमईतीति यत्तदर्थान्तरं सा सत्तेति सिद्धा । सत्तानुसंबन्धात् सत्सदिति प्रत्ययानुवृत्तिः । तस्मात् सा सामान्यमेव । अपरं द्रव्यस्वगुणस्वकर्मस्वादि अनुवृत्तिन्यावृत्तिहेतुत्वात् सामान्यं विशेषश्च भवति । एतानि तु द्रव्यत्वादीनि प्रभूतविषयत्वात् प्राधान्येन सामान्यानि स्वाश्रयविशेषकत्वाद्भक्त्या विशेषाख्यानीति ॥ " P. Bhāsya.
""
तत्र तयोर्मध्ये परं सत्ता भावो महासामान्यमिति चोच्यते । द्रभ्यत्वाद्ययान्तरसामान्यापेक्षया महाविषयत्वात् । अपरसामान्यं द्रव्यत्वादि । एतच सामान्यविशेष इत्यपि व्यपदिश्यते । तथाहि । द्रव्यत्वं नवसु द्रव्येषु वर्तमानत्वात् सामान्यम्, गुणकर्मव्यावृत्तत्वाद्विशेषः, ततः कर्मधारये सामान्यविशेष इति । एवं द्रव्यत्वाद्यपेक्षया पृथिवीत्वादिकमपरं तदपेक्षया घटत्वादिकम् । एवं चतुर्विंशतौ गुणेषु वृत्तेर्गुणत्वं सामान्यं द्रव्यकर्मभ्यो व्यावृत्तेव विशेषः । एवं गुणत्वापेक्षया रूपत्वादिकं तदपेक्षया नीलत्वादिकम् । एवं पञ्चसु कर्मसु वर्तमानत्वात्कर्मत्वं सामान्यं, द्रव्यगुणेभ्यो व्यावृत्तत्वाद्विशेषः । एवं कर्मत्वापेक्षयोत्क्षेपणत्वादिकं ज्ञेयम् ॥ तत्र सप्ता द्रव्यगुणकर्मभ्योऽर्थान्तरं कया. युक्तथेति चेत्, उच्यते । न द्रव्यं सत्ता द्रव्यादन्येत्यर्थः एकद्रव्यत्वात् एकैकस्मिन् द्रव्ये वर्तमानत्वादित्यर्थः द्रव्यत्ववत् । यथा द्रव्यत्वं नवसु द्रव्येषु प्रत्येकं वर्तमानं द्रव्यं न भवति किंतु सामान्यं विशेषलक्षणं द्रव्यत्वमेव एवं सप्तापि । वैशेषिकाणां हि अद्रव्यं वा द्रव्यं अनेकद्रव्यं वा द्रव्यम् । तत्राद्रव्यं द्रव्यमाकाशं कालो दिग् आत्मानः परमाणवः । अनेकद्रव्यं तु द्व्यणुकादिस्कन्धाः । एकद्रव्यं तु द्रव्यमेव न भवति । एकद्रव्यवती सत्तति द्रव्यलक्षणविलक्षणत्वान्न द्रव्यम् । एवं न गुणः सत्ता, गुणेष्वभावात् गुणत्ववत् । यदि हि