________________
[ पा० ४, सू० ३१-३३. ]
श० म० न्यासानुसन्धानम् - सप्त० । ऊर्ध्वमौहूर्ति कशब्दस्य योगार्थं माह - ऊर्ध्वं मुहूर्तादिति एतदेव विशदयति- उपरि मुहूर्तस्येति, भवार्थेऽत्र इकण् इत्यावेदयति भवोऽर्थ ऊर्ध्वमौहूर्तिक इति, “कालादन्यत्र 5 " वर्षाकालेभ्यः " [ ६. ३.८० ] इति न सिध्यतीति " अध्यात्मादिभ्य इकण्” [ ६. ३. ७८. ]" इति लघुन्यासकारः । प्रेषादीनामनुवर्तनादस्यापि तेष्वर्थेष्वेव विairficere - प्रैषादिषु गम्यमानेषु इति, अयमाशयःप्रशादयः प्रत्ययार्थविशेषणतया गम्यमानाः ऊर्ध्व मौहूति 10 कोऽर्थस्तु धातुवाच्य इति भावः । चकारेण कृत्यपञ्चम्यो
कलिकालसर्वज्ञश्रीहेमचन्द्रसूरिभगवत्प्रणीते
रनुकर्ष इत्याह- सप्तमी कृत्याः पञ्चमी च भवन्तीति । क्रमेणोदाहरति - ऊर्ध्वं मुहूर्तात् कटं कुर्यात् भवानिति - अत्र सप्तमी । कार्यः कर्तव्यः करणीयः कृत्यः कटो भवतेति - अत्र कृत्याः । कटं करोतु 15 भवानिति - अत्र पञ्चमी, सर्वत्र 'ऊर्ध्व मुहूर्तादिति योज
20
नीयम् । अर्थत्रयस्यापि पूर्वप्रयोगेषु सङ्गतिमाह भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसरः कटकरणे इतिऊर्ध्वमौहूर्तिके करणं तादृशकरणस्य च भवतोऽवसर इति वा यथाप्रकरणं प्रतीयते ।। ५ ४.३०. ॥
स्मे पञ्चमी । ५. ४. ३१. ॥
त० प्र० - स्मशब्द उपपदे प्रेषादिषु गम्यमानेषु ऊर्ध्वमौहूर्तिकेऽर्थे वर्तमानाद् धातोः पश्चमी मवति । कृत्यानां सप्तम्याश्चापवादः । ऊर्ध्व मुहूर्ता भवान् कटं करोतु स्म, भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसरः कटकरणे 25 इति ॥३१॥
।
श० म० न्यासानुसन्धानम् - स्मे० | स्मशब्दः स्पष्टार्थ इति लघुन्यासकारः । ‘प्रेषानुज्ञावरे' इत्यस्य 'ऊध्वंमौहूतिके' इत्यस्य चानुवर्तनादस्यापि तेष्वथेष्वेव विधानमत
- प्रैषादिषु गम्यमानेषु ऊर्ध्वमौहूर्तिकेऽर्थे इति । 30 कृत्यानां सप्तम्याश्वापवादः इति प्रेषादिष्वर्थे कृत्यानामपि प्राप्तिः ऊर्ध्वमौहूर्तिके च सप्तम्याः पूर्वेण प्राप्तिरिति तेषां सर्वेषामयमपवाद इति भावः । उदाहरतिऊर्ध्वं मुहूर्ताद भवान् कटं करोतु स्मेति, अर्थत्रयस्था
२६७
अधीष्टौ । ५. ४. ३२. ॥
त० प्र०- ऊर्ध्वमौहूर्तिक इति निवृत्तम्, पृथग्योगात् । स्म उपपदेऽधीष्टा वध्येषणायां गम्यमानायां धातोः पश्वमो भवति । सप्तम्यपवादः । अङ्ग स्म विद्वन्नणुव्रतानि रक्ष, शिक्षा: प्रतिपद्यस्व ||३२|| 40
|
श० म० न्यासानुसन्धानम् - अधीष्टौ । पूर्वसूत्रादस्य धात्वर्थविषयेऽपि भेदमाह - ऊर्ध्वमौहूर्तिक इति निवृत्तमिति । निवृत्ती हेतुमाह - पृथग्योगादिति - अन्यथा पूर्वसूत्र एवाधीष्टाविति पठनीयं स्यादिति भावः । नच स्मेऽधीष्टाविति क्रियमाणे स्मे उपपदेऽधीष्टावेव गम्यमा- 45 नायां पञ्चमी स्यान्न तु प्रैषादिषु अर्थभेदश्रवणादिति वाच्यम्, स्मेऽधीष्टौ चेति करणेन पूर्वो कार्थानामपि संग्रहसम्भवात् । सप्तम्यपवादः इति - "विधिनिमन्त्रणा ०" [ ५. ४ २८ ] इति सूत्रेण सामान्यतोऽधीष्टार्थे प्राप्तायाः सप्तम्याः स्मयोगे विशेषविहितेयं पचमी वाधिकेति 50 भाव:, स्मयोगाभावे तु सैवास्याप्राप्तेरिति । अधीष्टिः सत्कारपूर्विका प्रेरणा । उदाहरति- अङ्ग स्म विद्वन् ! अणुव्रतानि रक्ष, शिक्षाः प्रतिपद्यस्वेति- अङ्गशब्दः प्रकाशे कोमलामन्त्रणे वा अणूनि साधूनां महाव्रतापेक्षयाऽल्पविषयाणि व्रतानि स्थूलप्राणातिपातविरमणादीनि, 55 शिक्षा : समायिकादीनि चत्वारि शिक्षाव्रतानि, प्रतिपद्य स्वीकुरु ।। ५. ४. ३२. ।।
काल-वेला समये तुम् वाऽवसरे । ५. ४. ३३. ॥ त० प्र०- काल वेला समयशब्देषूपपदेष्ववसरे गम्यमाने घातोस्तु प्रत्ययो वा भवति । कालो भोक्तुम्, वेला 60 भोक्तुम्, समयो भोक्तुम् । वावचनाद् यथाप्राप्तं च-कालो भोक्तव्यस्थ । 'ऊर्ध्व' मुहूर्तात् कालो भोक्तुम्, ऊर्ध्व मुहूताद् भोक्तुं स्म कालः, अङ्ग स्म राजन् ! भोक्तुं काल' इत्येतेषु परत्वात् तुमेव । अवसर इति किम् ? कालः पचति भूतानि, कालोऽत्र द्रव्यं न त्ववसरः ॥ ३३॥ 65
श० म० न्यासानुसन्धानम् - काल० । सूत्रार्थः स्पष्टः । उदाहरति- कालो भोक्तुम्, वेला भोक्तुम्, समयो भोक्तुमिति - "भुजंप् पालनाभ्यवहारयोः” अतोऽनेन
प्युदाहरणे संगतिमाह- भवान् हि प्रेषितोऽनुज्ञातो | तुमि गुणे “चजः कगम्” [ २. १.८६. ] इति जस् 35 भवतोऽवसरः कटकरणे इति ।। ५. ४, ३१. ॥ | गत्वे "अघोषे प्रथमोऽशिट : " [ १.३.५० ] इति गस्य 70