________________
अध्याय
भूमिर्यदीषत् प्राग्भारा। नाम्ना सीतार्जुनधुतिः॥ तस्या श्रीमान्पतिश्चाहन्।सीता पतिरुदीर्यत ॥ १४ ॥ रकारेचरणेलीने । कंठजत्वादकारवत् ॥ हकारात्हर्षवान् अंगी । ईईषद्भुवमाश्रितः ॥१५॥ तत्रप्रणवमध्यस्था-कारस्यैवोपयोगतः ॥ हकारासिद्धयेयोग्यः । सर्वमन्त्रप्रतिष्टितः ॥१६॥ रहौनिवार्यध्येयंतत् । अईत्यर्थोऽथवापदे ॥ रहोरुभयतस्थित्या-हनवासिद्धमकारतः ॥१७॥ रहाभ्यां यत्परे द्वित्वं । तदपि स्वरयोगजम् ॥ व्योमाग्नितत्वयोः सिद्धि-रित्याहुः खरबेदिनः ॥१८॥
के केवलं दधति ये स्युरकारभाजो-ऽहध्यानतः सकलखेचरबन्दनीयाः ॥ खे भुंजते खविजया दुदीते खखाद्यम् । प्राप्तुं विवेकसुदृशः खऽमखाद्यमोक्षात् ॥ १९॥ वर्णोषु सर्वेषुयदस्त्यकारः । श्रीमातृकायां सकलार्थयोगात् ॥ तद्ज्ञानतोऽहन्नपि तद्वदेवः । देवप्रभावात् परीभावनीयः ॥ २० ॥ ज्ञेयादनन्ताद्भगवाननन्तो । ऽहंस्तद्विबोधी सचवीतरागः ॥
तत्पुजनात्तत् प्रणतेस्तदीय-ध्यानाद्भवेत्तन्मयएवसर्वः ॥२१॥ ॥ इतिश्रीअर्हद्गीतायांकर्मकाण्डेएकत्रिंशत्तमोऽध्यायः ॥३१॥