________________
अध्याय
अवताराःह्यसंख्येया । एकस्यापिहरेर्यथा ॥ ब्रह्मविष्णुमहेशाद्या । एवमर्हन्ननेकधा ॥११॥ एकवर्षे यथापक्षा-श्चतुर्विंशतिसंख्यया ॥ राशिचक्रेऽथवाहोरा । तत्वानिमंत्रशासने ॥१२॥ एकस्मिन्नपि षट्पर्वी । न्यासेमुक्तावशेषिता ॥ तावत्यस्ति प्रयोगानि । तथातावन्ति रक्षणे ॥१३॥ प्रकृत्यवस्थानामाद्यै–श्चतुर्विंशतिधाजिनः ॥ एकोपि श्रूयतेताव-दण्डक भ्रमणच्छिदे ॥१४॥ चतुर्विशतिनाडीभ्यो । नस्यादूनं दिनं निशा ॥ चतुर्विशत्यक्षरात्मा । गायत्रीसूत्रितापरे ॥१५॥ मातृकासौभाग्यवती । खटिकालेखनात्सिता ॥ चतुर्विंशतिमेवाख्य-जिनानांस्वररूपतः ॥ १६॥ स्वयंराजंतइत्युक्ता । स्वराःस्वयम्भुवोजिनाः ॥ स्वयंसम्बुद्धभावेन । वर्णाम्नायेपिसूत्रिताः ॥१७॥ वर्णवर्णात्षोडशानां । षोडशादौखराजिनाः ॥ वर्गीयपंचमाशेषं । यवलाश्वजिनाष्टकम् ॥१८॥
सिक्यधर्मेण । स्वररूपममीष्वपि ॥ वर्णभेदेऽहंतामेषां । तथोक्तिर्व्यञ्जनाश्रयाः ॥१९॥ प्रायोभिप्रायतस्त्वेव-मेकस्याप्यर्हतःस्मृतम् ॥ चतुर्विंशतिसंख्यानं । यथाद्वादशता रखेः ॥२०॥ स्वस्वशासनपद्धत्या । वर्ण्यतांनकधाप्रभुः ॥ तादात्म्यानन्यरूपत्वा-देकःश्रीपरमेश्वरः ॥२१॥
॥ इतिश्रीअर्हद्गीतायांकर्मकाण्डेद्वाविंशत्यऽध्यायः ॥ २२॥