________________
अध्याय
यथायथास्यमोहांध्यं । व्यपैतिस्वगुणोदयात् ॥ उदेति पारमैश्वर्यं । तथैन्द्रज्योतिरद्भुतम् ॥११॥ संपुर्ण पारमैश्वर्यं । सिद्धेस्ति परमेष्टिनि ॥ यदज्ञान ध्यानजापाद्यैः । सिद्धयोऽष्टोमहर्द्धयः॥१२॥ प्रकटे केवले ज्ञाने । योगातिशयशालिनि ॥ प्रसिद्धं पारमैश्वर्यं । स्पष्टमर्हति चार्हति ॥ १३॥ यदुक्तयोगमार्गेण । यध्यानादपियद्भवेत् ॥ तत्तत्कतृकमेवष्टं । वैद्यैत्रिःयथासुखं ॥१४॥ जिनोक्तयोगेनानेक-लब्धिर्विष्णुमुनेरिव ॥ ऐन्द्रर्द्धिभुक्तिमुक्तिश्चाऽ–वश्यंवश्यंजगत्रयं ॥१५॥ रागोद्वेषश्चसंसार-कारणंसद्भिरिष्यते ॥ तयोर्विवर्जितोज्ञाता । मुक्त:स परमेश्वरः ॥ १६ ॥ नजन्तुपीडा न ब्रीडा । नक्रीडा मैथुनादिकाः ॥ हास्यं नलास्यं नालास्यं । सएव परमेश्वरः ॥१७॥ शकचक्रयर्द्धचक्रयादि-यश्चान्यःपुरुषोत्तमः ॥ सोपि भाविनयापेक्षं । प्रत्यक्षः परमेश्वरः ॥१८॥ यावद्धमतिसंसारे । रागद्वेषवशंबदः ॥ आत्मा न पारमैश्वर्यं । तावत्प्राप्नोति निश्चयात् ॥१९॥ यस्यातिशयसाम्राज्यं । जगदाश्चर्यकारणम् ॥ शुद्धयोगेन योगी यः । सदेवःपरमेश्वरः ॥ २०॥ नानाजनानामित्युक्त्या । निर्णीयंपरमेश्वरम् ॥ तस्यैवभक्तिराधेया । प्रेयान् यदि महोदयः ॥ २१ ॥ ॥ इतिश्रीअर्हद्गीतायांकर्मकाण्डेएकविंशत्यऽध्यायः ॥२१॥