________________
बध्याय
एक्येपि तात्त्विकेनैक्यं ।भाव्यते ब्रह्मशुद्धये ॥अभ्यस्यते क्रिया किं नालोकैस्तस्याः फलषिभिः॥ १ ॥ यथापण्यमणेःशाणो-ल्लेखघर्षादिसंस्कृतिः ॥ स्वरूपलव्ध्यैतस्यैव । ब्रह्मशुद्धौ तथा क्रिया ॥ २ ॥ नकेवलाक्रियामुक्त्यै । न पुनर्ब्रह्मकेवलम् ॥ जीवन्मुक्तोपिशेलेश्या । केवलीस्याच्छिवंगमी ॥ ३ ॥ जगुर्ज्ञानक्रिया योगे । क्षणान्मोक्षं विचक्षणाः॥ योगाज्ज्योतिर्विदोवैद्या । ऋषयः सिद्धिमूचिरे ॥ ४ ॥ असत्या क्रिययाप्यंगी। नेयोदर्शनभूमिकाम् ॥ सदर्शनात् क्रियाशुद्धा। ध्यानादिः केवलाप्तये ॥ ५ ॥ वार्येध्याने आरोद्रे । धार्ये धर्मोज्वलैःखलु ॥ एतदर्थंजिनैः प्रोक्ताः । पंचधा नियमायमाः ॥ ६ ॥ द्रव्यक्षेत्रकालभावा-ऽपेक्षयाबहुधास्थितिः ॥ आचाराणां दृश्यतेसौ । न वादस्तत्र सादरः ॥ ७ ॥ रागद्वेषक्षयेयस्मा--द्भवेत्कैवल्यमुज्वलम् ॥ सैषप्रमाणमाचार-स्तारकत्वाद्भवाम्बुधौ ॥८॥ ज्ञानदर्शनचारित्र-साधनाय विधीयते ॥ आरंभःसह्यनारंभ । आश्रवेपि परिश्रवात् ॥ ९ ॥ यःपुनर्दभसंरंभ-संभवः संवरोप्ययम् ॥ तपः स्तेनवतस्तेना-दीनामिवमहाश्रवः ॥१०॥ यस्य संस्कार संस्कारः । कलंङ्कविकलं बलम् ॥ च्छलाचलचलंनान्तः करणं सशिवःस्वयम् ॥११॥ शिवेस्थिरश्रिय:सोम-प्रकृतेर्जगतीश्वरे ॥ महाव्रतानिसार्वज्ञं । तस्मिन्नश्रद्दधीतकः ॥१२॥