________________
अध्याय
श्री गौतमउवाच ऐक्यं सर्वत्र सर्वज्ञः । कथं मनास भाव्यते ॥ प्रपंचोऽर्थक्रियाकारी । वस्तुतः वस्तुनः क्षितौ ॥१॥ लोकोलोक स्तथाजीवो । ऽजीवस्याञ्चेतनोऽन्यथा ॥रूप्यरूपी तथासिद्धः । साधकः सेव्यसेवको॥ २॥ पुण्यपापे वंधमोक्षौ । वेदनानिर्जरेत्वपि ॥ आश्रवःसंवरधेति । साक्षाद्वैविध्यमार्थिकम् ॥ ३ ॥
श्री भगवानुवाच * वैकल्पिकमिदं सर्वं । व्यवहारनयाश्रयात् ॥ गौणमुख्यविवक्षातः । ख्यातः सर्वोऽर्थसंचयः ॥ ४ ॥ भावएकस्तस्य शक्तिः। द्वैविध्यं मुलतोमतम् ॥ समयस्यारात्रंवा-ध्यक्षं तत्तदुपाधितः ॥ ५ ॥ लोक्यते केवलज्ञात्रा । लोकोऽपिद्रव्यपर्ययैः ॥ लोकवसिद्धएवायं । तन्नैकान्तेन तद्भिदा ॥ ६ ॥ चेतन्ये गुणभावेना-ऽनंत्यात्पुद्गलवस्तुनः ॥ धर्माधर्मादियुक्तोपि । व्योम्नालोकोह्यलोकवत् ॥ ७॥ भावनासु यथाभाव्यः। संसारस्योपलक्षणात् ॥ सिद्धः स्वभावलोकस्य । तथा लोकोपिशाश्वतः॥ ८॥ उर्ध्वलोकादधोलोको-ऽप्यलोकोऽस्मात्तथैव सः॥भव्यलोकादभव्योपि । सिद्धः संसारिलोकतः ॥९॥ चैतन्यशक्त्याविष्टःसद्भावोजीवईतिस्मृतः॥ तदभावादजीवोऽन्यः।ख्यातेयं कल्पनाभुविः॥१०॥