________________
अध्याय
वर्षासु लवणममृतं । शरदिजलं गोपयश्चहेमन्ते ॥ शिशिरे चामलकरसं । घृतंवसन्तेगुडश्चान्ते ॥ ११ ॥ दृश्यते चिंत्यते यद्वा । कथ्यते यादृशो रसः ॥ ताहग्ऋतुः प्रश्नफले। मनोज्ञेन विमृश्यताम् ॥ १२॥ मेषोदिदृक्षया जल्पे । वृषो भोगेतु मैथुनम् ॥ जलेवांछाबलात् कर्की । सिंहः सांत्विकचिंतया ॥ १३ ॥ कन्याजाड्येन चापल्ये । क्षमायां सुभगादरे ॥ व्यवसाये तुलाकीटः। पैशुन्यखलतेच्छया ॥१४॥ रणे छायावाहनादेः । संग्रहेधन्वितान्विता ॥ समुद्रबार्तया क्रोर्या-चापल्येमकरोहृदि ॥१५॥ स्थैर्येण कार्ये सारस्ये-ऽमलिनाचरणारुचेः ॥ कुंभोदयोथ मांगल्ये । मीनो धर्मे शिते शुभे ॥१६॥ बस्तुयद्राशिसंबद्ध-मुपानेयमचिन्तितम् ॥ भक्ष्यंवा मनसा ध्येयं । मनोराशिःमनोजवत् ॥१७॥ जल्पदयद्राशिमानजीवो। भवेद्यद्वा मनप्रियम् । मनःशास्त्रविदामान्य-स्तद्राशिौनसस्तदा ॥१८॥ अधर्मभावनाद्रात्रि-दिवसोधर्मनिष्टया ॥ शुभभावनया शुक्ल-पक्षःकृष्णोविपर्ययात् ॥१९॥ वृद्धौ नन्दा शिवेभद्रा । युद्धराज्येजयेच्छया ॥ योगे रिक्ता मोक्षलाभे । पूर्णापूर्णेच्छयाहृदि ॥ २०॥ एभिश्चिन्हैमनोमत्वा । कार्ये तात्कालिके फले ॥ प्रश्नेभाविनि वा भावे। लाभयसिद्धिनिश्चयम् ॥ २१ ॥
॥ इतिश्रीअर्हद्गीतायांद्वादशोऽध्यायः ॥ १२॥