________________
अध्याय
धर्माकाशेशुमान् ज्ञानं । दर्शनंचामृतद्युतिः ॥ परेग्रहाःमंगलाद्याः । पंचचारित्रपंचकम् ॥ ११ ॥ वाल्यं ज्ञानं वयस्तस्मा-पुरोदर्शनमुद्यतम् । चारित्रविज्ञताधर्मे-ऽवस्थात्रयमिदं शुभम् ॥ १२ ॥ धर्मस्यादिःस्मृतं ज्ञानं । सम्यकत्वंमध्यमुच्यते ॥ चारित्रमवसानोऽस्य। तत्रैकैवोपयुक्तता ॥ १३ बोधो बीजं तथा मूलं । सम्यक्त्वंदृढतायतः ॥ चारित्रपंचकंशाखा । फलंधर्मतरोःशिवम् ॥ १४ ॥ वातं विजयतेज्ञानं । दर्शनं पित्तवारणम् । कफनाशाय चरणं । धर्मस्तेनामृतायते ॥ १५ ॥ दक्षिणांगं भवेद्ज्ञानं । वामांगंभक्तिभाजनम् ॥ मध्यभागस्ति चारित्रं । धर्मदेहस्य साधनम् ॥ १६ ॥ ज्ञानपुस्त्वं पुनःस्त्रीत्वं । भक्त्यादशनवृद्धये ॥ तदंगजन्माचारित्रा-चार:स्यादुभयात्तमः ॥१७॥ ज्ञानं स्यादेकबचने-द्वित्वेपिज्ञानदर्शने ॥ ज्ञानदर्शनचारित्रै-धर्माऽस्ति बचनत्रयी ॥१८॥ उर्ध्वलोके स्थितं ज्ञान–मधोलोकेच दर्शनम् ॥ चारित्रं मध्य लोकस्थं । धर्मस्थं भुवनत्रयम् ॥ १९ ॥ संध्याभक्तिर्दिनं ज्ञानं । यामिनी चरणं स्मृतम् ॥ धर्मध्यानादृतेसर्व-व्यापारभरसंवरात् ॥ २० ॥ एवंत्रिधाबस्तुगते। तंभविने निदर्शितम् ॥ रत्नत्रयंतत्वतोपि स्यादेकंतदनेकभूः ॥२१॥
॥ इतिअर्हद्गीतायांपष्टोऽध्यायः ॥ ६॥