________________
અનેકાંત અમૃત
स्याद्वादो हि समस्तवस्तुतत्त्वसाधक मे कमस्खलितं शासनमर्हत्सर्वज्ञस्य । स तु सर्वमनेकान्तात्मकमित्यनुशास्ति, सर्वस्यापि वस्तुनोऽनेकान्तस्वभावतत्वात् । अत्र त्वात्मवस्तुनि ज्ञानमात्रतया अनुशास्यमानेऽपि न तत्परिकोप:, ज्ञानमात्रस्यात्मवस्तुन: स्यमेवानेकान्तत्वात् । तत्र यदेव तत्तदेवातत् यदेबैकं तदेवानेकं, यदेव सत्तदेवासत्, यदेव नित्यं तदेवानित्यमित्येकव वस्तुवस्तुत्वनिष्पादकपरस्पर विरुद्धशक्तिद्वयप्रकाशमनेकान्तः । तस्वात्मवस्तुनो ज्ञानमात्रत्वेऽप्यन्तश्चकचकायमानज्ञानस्वरूपेण
तत्त्वात्
बहिरुन्मिषदनन्तज्ञेयतापन्नस्वरूपातिरिक्तपररूपेणातत्त्वात्, सहक्रमप्रवृत्तानन्तचिदंश
૨
,
समुदयरुपाविभागद्रव्येणैकत्वात. अविभागैकद्रव्याप्तसहक्रमवप्रवृत्तानन्त्तचिदंशरुपपर्यायैरनेकत्वात्, स्वद्रव्यक्षेत्रकालभावभवनशक्तिस्वभावतत्त्वेन सत्त्वात्, परद्रव्यक्षेत्रकालभावाभवनशक्तिस्वभाववत्त्वेनाऽसत्त्वात्, अनादिनिधनाविभागैकवृत्तिपरिणतत्वेन नित्यत्वात, क्रमप्रवृतैकसमयावच्छिनानेकवृत्त्यंशपरिणतत्वेनानित्यत्वात्, तदतत्त्वमेकानैकत्वं सदसत्त्वं नित्यानित्यत्वं च प्रकाशते एव । ननु यदि ज्ञानमात्रत्त्वेऽपि आत्मवस्तुन: स्वयमेवानेकान्त प्रकाशते तर्हि किमर्थ मं र्हद्भिस्तत्साधनत्वेनाऽनुशास्यतेऽनेकान्तः ? अज्ञानिनां ज्ञानमात्रात्मवस्त्वेव प्रसिध्यति । तथाहि - इह हि स्वभावत एव बहुभावनिर्भरे विश्वे सर्वभावानां स्वभावेनाद्वैतेऽपि द्वैतस्य निषेद्धुमशक्यत्वात् समस्तमेव वस्तु स्वपररूपप्रवृत्तिव्यावृत्तिभ्यामुपपभावाध्यासितमेव । तत्र यदायं ज्ञानमात्रो भाव : शेषभावैः सह स्वरसभरप्रवृत्तज्ञातृ ज्ञेयसम्बन्धतयाऽनादिज्ञेयपरिणमनात् ज्ञानतत्त्वं पररूपेण प्रतिपद्याज्ञानी भूत्वा नाशमुपैति, तदा स्वरुपेण तत्त्वं द्योतयित्वा ज्ञातृत्वेन परिणमनाज्ज्ञानी कुर्वन्ननेकान्त ऐव तमुदमयति १ । यदा तु सर्व वै खल्विदमात्मेति अज्ञानतत्त्वं स्वरुपेण प्रतिपद्य विश्वोपादानेनात्मानं नाशयति, तदा पररूपेणातत्त्वं द्योतयित्वा विश्वाद्भिन्नं ज्ञानं दर्शयन्ननेकान्त एव नाशयितुं न ददाति २ । यदानेकज्ञेयाकारैः खण्डितसकलैकज्ञानाकारो नाशमुपैति तदा द्रव्येणैकत्वं द्योतयन्ननेकान्त एव तमुज्जीवयति ३ । यदा त्वेकज्ञानाकारोपादानायानेकज्ञेयाकारत्यागेनात्मानं नाशयति, तदा पर्यायैरनेकत्वं द्योतयन्ननेकान्त एव नाशयितुं न ददाति ४ । यदा ज्ञायमानपरद्रव्यपरिणमनाद् ज्ञातृद्रव्यं परद्रव्यत्वेन प्रतिपद्य नाशमुपैति तदा स्वद्रव्येण सत्त्वं द्योतयन्ननेकान्त एव तमुज्ञ्जीवयति ५ । यदा तु सर्वद्रव्याणि अहमेवेति परद्रव्यं ज्ञातृद्रव्यत्वेन प्रतिपद्यात्मानं नाशयति, तदा परद्रव्येणासत्त्वं द्योतयन्ननेकान्त एव नाशयितुं न ददाति ६ ।
यदा परक्षेत्रगतज्ञेयार्थपरिणमानत् परक्षेत्रेण ज्ञानं सत् प्रतिपद्य नाशमुपैति तदा स्वक्षेत्रेणास्तित्वं द्योतयन्ननेकान्त एव तमुज्जीवयति ७ । यदा तु स्वक्षेत्रे भवनाय परक्षेत्रगतज्ञेयाकारत्यागेन ज्ञानं तुच्छीकुर्वन्नात्मानं नाशयति, तदा स्वक्षेत्र एव ज्ञानस्यपरक्षेत्रगतज्ञेयाकार परिणमनस्वभावत्वात्परक्षेत्रेण नास्तित्वं द्योतयन्ननेकान्त एव नाशयितुं न ददाति ८ । यदा
-