________________
अनिर्वारोद्रेकस्त्रिभुवन-जयी काम-सुभटः, कुमारावस्थायामपि निजबलाद्येन विजितः । स्फुरन्नित्यानन्द-प्रशम-पद-राज्याय स जिनः, महावीरस्वामी नयनपथगामी भवतु मे (नः) ।।७।। महा-मोहातंक -प्रशमन-परा-कस्मिन्भिषग्, निरापेक्षो बंधुर्विदित-महिमा मंगलकरः। शरण्यः साधूनां भव-भय-भृतामुत्तम-गुणो, महावीरस्वामी नयनपथगामी भवतु मे (नः) ।।८।।
(अनुष्टप) महावीराष्टकं स्तोत्रं भक्त्या भागेन्दुना कृतम् । यःपठेच्छृणुयाच्चापि स याति परमां गतिम् ।।
222
महावीराष्टक स्तोत्र (कविवर भागचन्दजी कृत)
(शिखरिणी) यदीये चैतन्ये मुकुर इव भावाश्चिदचिताः, समं भान्ति ध्रौव्य-व्यय-जनि लसन्तोऽन्तरहिताः। जगत्साक्षीमार्ग-प्रकटन-परो भानुरिव यो, महावीरस्वामी नयनपथगामी भवतु मे (नः) ।।१।। अतानं यच्चक्षुः कमल-युगलं स्पन्द-रहितम्, जनान् कोपापायं प्रकटयति वाभ्यन्तरमपि । स्फुटं मूर्तिर्यस्य प्रशमितमयी वातिविमला, महावीरस्वामी नयनपथगामी भवतु मे (नः) ।।२।। नमन्नाकेन्द्राली मुकुट-मणि-भा-जाल-जटिलं, लसत्-पादाम्भोज-द्वयमिह यदीयं तनु भृताम् । भव ज्वाला-शान्त्यै प्रभवति जलं वा स्मृतमपि, महावीरस्वामी नयनपथगामी भवतु मे (नः) ।।३।। यदर्चा-भावेन प्रमुदित-मना दर्दुर इह, क्षणादासीत्-स्वर्गी गुण-गण-समृद्धः सुखनिधिः । लभंते सद्भक्ताः शिव-सुख-समाज किमु तदा, महावीरस्वामी नयनपथगामी भवतु मे (नः) ।।४।। कनत्-स्वर्णाभासोऽप्यपगत- तनुर्ज्ञान-निवहो, विचित्रात्माप्येको नृपतिवरसिद्धार्थ-तनयः । अजन्मापि श्रीमान् विगत-भवरागोऽद्भुत-गतिः, महावीरस्वामी नयनपथगामी भवतु मे (नः) ।।५।। यदीया वाग्गंगा विविध-नय-कल्लोल-विमला, वृहज्ज्ञानांभोभिर्जगति जनतां या स्नपयति । इदानीमप्येषा बुध-जन-मरालैः परिचिता, महावीरस्वामी नयनपथगामी भवतु मे (नः) ।।६।।
0000000000 जिनेन्द्र अर्चना
मंगलाष्टक
(शार्दूलविक्रीडित) अर्हन्तो भगवन्त इन्द्रमहिताः सिद्धाश्च सिद्धीश्वराः आचार्या जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः । श्रीसिद्धान्तसुपाठकाः मुनिवराः रत्नत्रयाराधकाः पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु ते मंगलम् ।।१।। श्रीमन्नम्र-सुरासुरेन्द्र-मुकुट- प्रद्योत-रत्नप्रभा भास्वत्पाद-नखेन्दवः प्रवचनाम्भोधीन्दवः स्थायिनः । ये सर्वे जिनसिद्ध-सूर्यनुगतास्ते पाठकाः साधवः, स्तुत्या योगिजनैश्च पञ्चगुरवः कुर्वन्तु ते मंगलम् ।।२।। सम्यग्दर्शन-बोध-वृत्तममलं रत्नत्रयं पावनं, मुक्तिश्री नगराधिनाथ-जिनपत्युक्तोऽपवर्गप्रदः । धर्मः सूक्तिसुधा च चैत्यमखिलं चैत्यालयं श्रयालय,
प्रोक्तं च त्रिविधं चतुर्विधममी कुर्वन्तु ते मंगलम् ।।३।। जिनेन्द्र अर्चना/00000
LUUUU000२८९
२८८000000
145