________________
Version 001: remember to check http://www.AtmaDharma.com for updates
कनत्स्वर्णाभासोऽप्यपगततनुर्ज्ञाननिवहो विचित्रात्माप्येको नृपतिवरसिद्धार्थतनयः। अजन्मापि श्रीमान् विगतभव रागोऽद्भुतगतिः महावीरस्वामी नयनपथगामी भवतु मे (नः) ।।५।।
यदीया वाग्गंगा विविधनयकल्लोलविमला, वृहज्ज्ञानाम्भोभिर्जगति जनतां या स्नपयति। इदानीमप्येषा बुधजनमरालैः परिचिता, महावीरस्वामी नयनपथगामी भवतु मे ( नः) ।।६।।
अनिर्वारोद्रेकस्त्रिभुवनजयी कामसुभट:, कुमारावस्थायामपि निजबलाद्येन विजितः । स्फुरन्नित्यानंदप्रशमपदराज्याय स जिनः, महावीरस्वामी नयनपथगामी भवतु मे (न:) ।।७।।
महामोहांतकप्रशमनपराकस्मिनभिषग निरापेक्षो बंधुर्विदितमहिमा मंगलकरः। शरण्यः साधूनां भवभयमृतामुत्तमगुणो , महावीरस्वामी नयनपथगामी भवतु मे (न:) ।।८।।
महावीराष्टकं स्तोत्रं भक्त्या भागेन्दुना कृतम्। यः पठेच्छृणुयाच्चापि स याति परमां गतिम् ।।
Please inform us of any errors on rajesh@ AtmaDharma.com