________________
ગાથા-૧૨૧ થી ૧૨૫
गाथा-१२१,१२२,१२३, १२४, १२५
૨૯૧
***
जीवस्य परिणामित्वं साधयति
ण सयं बद्धो कम्मे ण सयं परिणमदि कोहमादीहिं । जदि एस तुज्झ जीवो अप्परिणामी तदा होदि ।। १२१ ।। अपरिणमंतम्हि सयं जीवे कोहादिएहिं भावेहिं । संसारस्स अभावो पसज्जदे संखसमओ वा । । १२२ ।। पोग्गलकम्मं कोहो जीवं परिणामएदि कोहत्तं । तं सयमपरिणमंतं कहं णु परिणामयदि कोहो । । १२३ । । अह सयमप्पा परिणमदि कोहभावेण एस दे बुद्धी । कोहो परिणामयदे जीवं कोहत्तमिदि मिच्छा ।। १२४ ।। कोहुवजुत्तो कोहो माणुवजुत्तो य माणमेवादा । माउवजुत्तो माया लोहुवजुत्तो हवदि लोहो।। १२५ ।। न स्वयं बद्धः कर्मणि न स्वयं परिणमते क्रोधादिभिः । यद्येष: तव जीवोऽपरिणामी तदा भवति।।१२१।। अपरिणममाने स्वयं जीवे क्रोधादिभिः भावैः । संसारस्याभाव: प्रसजति सांख्यसमयो वा।।१२२।। पुद्गलकर्म क्रोधो जीवं परिणामयति क्रोधत्वम्। तं स्वयमपरिणममानं कथं नु परिणामयति क्रोधः ।। १२३ ।। अथ स्वयमात्मा परिणमते क्रोधभावेन एषा ते बुद्धिः । क्रोध: परिणामयति जीवं क्रोधत्वमिति मिथ्या ।। १२४ ।। क्रोधोपयुक्तः क्रोधो मानोपयुक्तश्च मान एवात्मा ।
मायोपयुक्तो माया लोभोपयुक्तो भवति लोभः । । १२५ ।।
***
यदि कर्मणि स्वयमबद्धः सन् जीवः क्रोधादिभावेन स्वयमेव न परिणमेत तदा स किलापरिणाम्येव स्यात् । तथा सति संसाराभावाः । अथ पुद्गलकर्म क्रोधादि जीवं क्रोधादिभावेन परिणामयति ततो न संसाराभाव इति तर्कः । किं स्वयमपरिणममानं परिणममानं वा पुद्गलकर्म क्रोधादि जीवं क्रोधादिभावेन परिणामयेत् ? न