________________
૧૩)
સમયસાર સિદ્ધિ ભાગ-૪
कथं ज्ञानास्रवनिवृत्त्योः समकालत्वमिति चेत्
जीवणिबद्धा एदे अधुव अणिचा तहा असरणा य। दुक्खा दुक्खफल त्ति य णादूण णिवत्तदे तेहिं।।७४।। जीवनिबद्धा एते अध्रुवा अनित्यास्तथा अशरणाश्च।
दुःखानि दुःखफला इति च ज्ञात्वा निवर्तते तेभ्यः ।।७४।। जतुपादपवद्वध्यघातकस्वभावत्वाज्जीवनिबद्धाः,खल्वास्रवाः,न पुनरविरुद्धस्वभावत्वाभावाज्जीव एव। अपस्माररयवद्वर्धमानहीयमानत्वादध्रुवा: खल्वास्रवाः, ध्रुवश्चिन्मात्रो जीव एव। शीतदाहज्वरावेशवत् क्रमेणोज्जृम्भमाणत्वादनित्याः खल्वास्रवाः, नित्यो विज्ञानघनस्वभावो जीव एव। बीजनिर्मोक्षक्षणक्षीयमाणदारुणस्मरसंस्कारवत्त्रातुमशक्यत्वादशरणाः खल्वास्रवाः, सशरणः स्वयं गुप्तः सहजचिच्छक्तिर्जीव एव। नित्यमेवाकुलस्वभावत्वाद्दुःखानि खल्वास्रवाः, अदु:खं नित्यमेवानाकुलस्वभावो जीव एव। आयत्यामाकुलत्वोत्पादकस्य पुद्गलपरिणामस्य हेतुत्वाहुःखफला:खल्वास्रवाः, अदु:खफलः सकलस्यापि पुद्गलपरिणामस्याहेतुत्वाज्जीव एव। इति विकल्पानन्तरमेव शिथिलित-कर्मविपाको विघटितघनौघघटनो दिगाभोग इव निरर्गलप्रसरः सहजविजृम्भमाण-चिच्छक्तितया यथा यथा विज्ञानघनस्वभावो भवति तथा तथास्रवेभ्यो निवर्तते, यथा यथास्रवेभ्यश्च निवर्तते तथा तथा विज्ञानघनस्वभावो भवतीति। तावद्विज्ञानघनस्वभावो भवति यावत्सम्यगास्रवेभ्यो निवर्तते, तावदास्रवेभ्यश्च निवर्तते यावत्सम्यग्विज्ञानघनस्वभावो भवतीति ज्ञानासवनिवृत्त्योः समकालत्वम्।
હવે પૂછે છે કે જ્ઞાન થવાનો અને આસવોની નિવૃત્તિનો સમકાળ (એક કાળ ) કઈ રીતે છે? તેના ઉત્તરરૂપ ગાથા કહે છે
આ સર્વ જીવનિબદ્ધ, અધુવ, શરણહીન, અનિત્ય છે,
એ દુઃખ, દુખફળ જાણીને એનાથી જીવ પાછો વળે. ૭૪. Puथार्थ:-[ एते] पासपो [जीवनिबद्धाः ] ®पनी साथे निबद्ध छ,[ अध्रुवा:] सध्रुव छ, [ अनित्या: ] मनित्य छ [ तथा च] तेम ४ [ अशरणाः ] अश२४॥ छ, [च] वजी तेसो [ दुःखानि]:५३५ छे, [ दुःखफला:]:५४ भर्नु ण छ मेवा छे, - [इति ज्ञात्वा ] मे Meीने url [ तेभ्यः ] तेमनाथी [ निवर्तते] निवृत्ति ऽरे छे.
ટીકા- વૃક્ષ અને લાખની જેમ વધ્ય-ઘાતકસ્વભાવપણું હોવાથી આસવો જીવ સાથે બંધાયેલા છે; પરંતુ અવિરુદ્ધસ્વભાવપણાનો અભાવ હોવાથી તેઓ જીવ જ નથી.