________________
Version 001: remember to check http://www.AtmaDharma.com for updates
समयसार गाथा ३२० : तात्पर्यवृत्ति टीका
[ અહીં પ્રથમ મૂળ ગાથા, સંસ્કૃત ટીકા અને ગુજરાતી અનુવાદ
मापे छ. ५छी पृ. ८१ थी प्रययननो प्राम. थाय छ.] दिट्ठी सयं पि णाणं अकारयं तह अवेदयं चेव। जाणदि य बंधमोक्खं कम्मुदयं णिज्जरं चेव।। ३२०।। [दिट्ठी सयं पि णाणं ने ५६ मध्याति-2ी.मi
दिट्ठी जहेव णाणं मेयो ५४ छ.] तमेव अकर्तृत्वभोक्तृत्वभावं विशेषेण समर्थयति; [ दिट्ठी सयं पि णाणं अकारयं तह अवेदयं चेव ] यथा दृष्टि: की दृश्यमग्निरूपं वस्तुसंघुक्षणं पुरुषवन्न करोति तथैव च तप्तायःपिंडवदनुभवरूपेण न वेदयति। तथा शुद्धज्ञानमप्यभेदेन शुद्धज्ञानपरिणत जीवो वा स्वयं शुद्धोपादानरूपेण न करोति न च वेदयति। अथवा पाठांतरं [ दिट्ठी खयंपि णाणं] तस्य व्याख्यानं-न केवलं दृष्टि: क्षायिकज्ञानमपि निश्चयेन कर्मणामकारक तथैवावेदकमपि। तथाभूतः सन् किं करोति ? [ जाणदि य बंधमोखं] जानाति च। कौ ? बंधमोक्षौ। न केवलं बंधमोक्षौ [ कम्मुदयं णिज्जरं चेव] शुभाशुभरूपं कर्मोदयं सविपाकाविपाकरूपेण सकामाकामरूपेण वा द्विधा निर्जरां चैव जानाति इति।
एवं सर्वविशुद्धपारिणामिकपरमभावग्राहकेण शुद्धोपादानभूतेन शुद्धद्रव्यार्थिकनयेन कर्तृत्व भोक्तृत्व बंध-मोक्षादिकारणपरिणामशून्यो जीव इति सूचितं। समुदायपातनिकायां पश्चाद्राथाचतुष्टयेन जीवस्याकर्तृत्वगुणव्याख्यानमुख्त्यवेन सामान्यविवरणं कृतं। पुनरपि गाथाचतुष्टयेन शुद्धस्यापि यत्प्रकृतिभिर्बंधो भवति तदज्ञानस्य माहात्म्यमित्यज्ञानसामर्थ्यकथनरूपेणे विशेषविवरणं कृतं। पुनश्च गाथाचतुष्टयेन जीवस्याभोक्तृत्वगुणव्याख्यानमुख्यत्वेन व्याख्यानं कृतं। तदनन्तरं शुद्धनिश्चयेन तस्यैव कर्तृत्वबंधमोक्षादिककारणपरिणामवर्जनरूपस्य द्वादशगाथाव्याख्यानस्योपसंहाररूपेण गाथाद्वयं गतं। इति समयसारव्याख्यायां शुद्धात्मानुभूतिलक्षणायां तात्पर्यवृत्तौ मोक्षाधिकार संबंधिनी चूलिका समाप्ता। अथवा द्वितीयव्याख्यानेनात्र मोक्षाधिकार समाप्तः।
Please inform us of any errors on Rajesh@AtmaDharma.com