________________
Version 001: remember to check http://www.AtmaDharma.com for updates
જ્ઞાનથી જ્ઞાનનું ભેદજ્ઞાન
अशुभःशुभो या शब्दो न त्वां भणति भृणु मामिति स एव। न चैति विनिर्ग्रहीतुं श्रोत्रविषयभागतं शब्दम्।।३७५ ।। अशुभं शुभं वा रूपं न त्वां भणति पश्य मामिति स एव। न चैति विनिर्ग्रहीतुं चक्षुर्विषयमागतं रूपम्।।३७६ ।। अशुभः शुभो वा गन्धो न त्वां भणति जिध्र मामिति स एव। न चैति विनिर्ग्रहीतुं घ्राणविषयमागतं गन्धम्।। ३७७।। अशुभः शुभो वा रसो न त्वां भणति रसय भामिति स एव। न चैति विनिर्ग्रहीतुं रसनविषयमागतं तु रसम्।। ३७८ ।। अशुभ: शुभो वा स्पर्शो न त्वां भणति स्पृश मामिति स एव। न चैति विनिर्ग्रहीतुं कायविषयमागतं स्पर्शम्।।३७९ ।। अशुभः शुभो वा गुणो न त्वां भणति बुध्यस्व मामिति स एव। न चैति विनिर्ग्रहीतुं बुद्धिविषयमागतं तु गुणम्।।३८०।। अशुभं शुभं वा द्रव्यं न त्वां भणति बुध्यस्थ मामिति स एव। न चैति विनिर्ग्रहीतुं बुद्धिविषयमागतं द्रव्यम्।। ३८९ ।। एततु ज्ञात्वा उपशमं नैव गच्छति मूढः।
विनिर्ग्रहमनाः परस्य च स्वयं च बुद्धि शिवामप्राप्तः।। ३८२।। यथेह बहिरर्थो घटपटादिः, देवदत्तो यज्ञदत्तमिव हस्ते गृहीत्वा , ' मां प्रकाशय' इति स्वप्रकाशने न प्रदीपं प्रयोजयति , न च प्रदीपोऽप्ययः कान्तोपलकृष्टायः सूचीवत् स्वस्थानात्प्रच्युत्य तं प्रकाशयितुमायाति; किन्तु वस्तुस्वभावस्य परेणोत्पाद यितुमशक्यत्वात् परमुत्पादयितुमशक्तत्वाच्च यथा तदसन्निधाने तथा तत्सन्निधानेऽपि स्वरूपेणैव प्रकाशते। स्वरूपेणैव प्रकाशमानस्य चास्य वस्तुस्वभावादेव विचित्रां परिणतिमासादयन् कमनीयोऽकमनीयो वा घटपटादिर्न मनागपि विक्रियायै कल्प्यते। तथा बहिरर्थाः शब्दो, रूपं, गन्धो, रसः, स्पर्शो, गुणद्रव्ये च , देवदत्तो यज्ञदत्तमिव हस्ते गृहीत्वा , 'मां शृणु , मां पश्य , मां जिध्र , मां रसय, मां स्पृश , मां बुध्यस्व' इति स्वज्ञाने नात्मानं प्रयोजयन्ति , न चात्माप्ययः कान्तोपलकृष्टायः सूचीवत् स्वस्थानात्प्रच्यत्य तान ज्ञातमायाति; किन्त वस्तस्वभावस्य परेणोत्पादयितम शक्यत्वात् परमुत्पादयितुमशक्तत्वाच यथा तदसन्निधाने तथा तत्सन्निधानेऽपि स्वरूपेणैव जानीते। स्वरूपेणैव जानतश्चास्य वस्तुस्वमावादेव विचित्रां परिणति मासादयन्तः कमनीया अकमनीया या शब्दादयो बहिरा न मनागपि विक्रियायै कल्प्ये रन्। एवमात्मा प्रदीपवत् परं प्रति उदासीनो नित्यमेवेति वस्तुस्थित; तथापि यद्रागद्वेषौ तदज्ञानाम्।
Please inform us of any errors on Rajesh@ AtmaDharma.com